SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ३८. . ... योगशास्त्रे : तरुशाखातिरोभूत: सौतोत्सङ्गेऽङ्गुलीयकम् । हनूमान् पातयामास तदृष्ट्वा मुमुदे च मा ॥ २ ॥ तदेव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषमाऽऽसीत् सानन्दा त्वद्य जानको ॥ ३ ॥ मन्ये विस्मृतरामयं रिरंसुर्मयि संप्रति । तहत्वा बोध्यता'मित्यादिक्षत् मन्दोदरौं स तु ॥ ४ ॥ ततश्च पत्युर्दूत्येन सत्र मन्दोदरी ययौ। प्रलोभनक्वते सीतां विनीता सेत्यवोचत ॥ ५ ॥ अहैतेश्वर्यसौन्दर्यवर्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्यसम्पदा ॥ ६ ॥ यद्यप्यनेन देवेन युवयोरुभयोरपि। न व्यधाधुचितो योगस्तथापि ह्यस्तु संप्रति ॥ ७ ॥ उपत्य भजनीयं तं भजन्तं भज रावणम् । ' अहमन्याश्च तद्राज्ञास्त्वदाज्ञां सुभु ! बिभ्रतु ॥ ८ ॥ सीताऽप्यवोचदाः पापे पतिदूत्यविधायिनि । त्वगर्तुरिव वीक्षेत मुखं दुर्मुखि कस्तव ॥ ८ ॥ ,रामस्य पार्वे मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तुं द्राक् धवं तव सबान्धवम् ॥ १० ॥ उत्तिष्ठोत्तिष्ठ पापिष्ठे वच्मि नातः परं त्वया । सौतया तर्जितैवं सा सकोपा प्रययौ ततः ॥ ११ ॥ (१) ख च ड -मेवमूचे।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy