SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः | कुन्तपातेर्दिवं कुर्वदुल्कापातमयोमिव ॥ ४८ ॥ युयुधे सादिना सादी निषादो च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥ ४८ ॥ चतुरङ्गचमूचक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥ ५० ॥ एह्येहि रे परगृहप्रवेशश्वत्रिति ब्रुवन् । विटसुग्रीवमुद्वीवः सुग्रीवो योडुमाह्वत ॥ ५१ ॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥ ५२ ॥ युयुधाते महायोद्दौ तौ क्रोधारुणलोचनौ । विदधानौ जगतासं कोनाशस्येव सोदरौ ॥ ५३ ॥ तौ निशातैर्निशतानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छेदाते तृणच्छेदं रणच्छेकावुभावपि ॥ ५४ ॥ शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरोगणः । महायुद्धे तयोर्वृक्षखण्डो महिषयोरिव ॥ ५५ ॥ तौ छिन्नास्त्रावथान्योन्यममर्षणशिरोमणी । मल्लयुद्धेनास्फालतां पर्वताविव जङ्गमौ ॥ ५६ ॥ उत्पतन्तौ क्षणाद्दद्योम्नि निपतन्तौ क्षणाद्भुवि । ताम्रचूडाविवाभातां वौरचूडामणी उभी ॥ ५७ ॥ तौ दावपि महाप्राणौ मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः ॥ ५८ ॥ पुनर्युडेन सुग्रीवः खिन्नः स्विन्त्रतनुस्ततः । ३७५
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy