SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ - योगशास्त्रे तस्या दासौकताशेषसुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥ ६ ॥ आसमुद्रममुद्राज ! यानि कान्यपि भूतले । तवैवाहन्ति रत्नानि तानि सर्वाणि बान्धव ! ॥ ८७॥ दृशामनिमिषीकारकारणं रूपसम्पदा। . स्त्रीरत्नमेतगृह्नीया नचेत्तत्रासि रावणः ॥ ८८ ॥ आरुह्य पुष्पकमथादिदेश दशकन्धरः । विमानराज ! त्वरितं याहि यत्रास्ति जानकी ॥८॥ ययौ चात्यन्तवेगेन विमानमनुजानकि । स्पर्द्धयेव दशग्रीवमनसस्तत्र गच्छतः ॥ १० ॥ दृष्ट्वाऽपि रामादत्यु ग्रतेजसो दशकन्धरः । बिभाय दूरे तस्थौ च व्याघ्रो हुतवहादिव ॥ १ ॥ इति चाचिन्तयदितः कष्टं रामो दुरासदः । इतश्च सौताहरणमितो व्याघ्र इतस्तटी ॥ २ ॥ विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मङ्गु किङ्करीव कृताञ्जलिः ॥ ३ ॥ . ततश्चाज्ञापयामास तल्कालं तां दशाननः । कुरु साहाय्यमहाय मम सीतां हरिष्यतः ॥ ४ ॥ साऽवोचहासुकमौलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ॥ ५ ॥ उपायः किन्त्वसावस्ति यायाद येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो ह्यनयोरयम् ॥ ६ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy