SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । भक्तिं दर्शय तत्तस्मिन् शक्तिं वा दर्शयाधुना । भक्तिशक्तिविहीनश्वे देवमेव विनङ्क्ष्यसि ॥ २४ ॥ इन्द्रोऽपि निजगादैवं वराकैः पूजितो नृपैः । रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ॥ २५ ॥ यथा तथा गतः कालो रावणस्य सुखाय सः । कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥ २६ ॥ गत्वा स्वस्वामिनो भक्तिं शक्तिं वा मयि दर्शय । स भक्तिशक्तिहीनश्वेदेवमेव विनङ्क्ष्यति ॥ २७॥ दूतेनागत्य विज्ञप्ते रावणः क्रोधदारुणः 1 चचालानन्तसैन्योर्मिः क्षयोद्धान्त इवार्णवः ॥ २८ ॥ तयोर्बलानामन्योऽन्यं संफेटः शस्त्रवर्षिणाम् । संवर्त्त पुष्करावर्त्तवारिदानामिवाभवत् ॥ २८ ॥ रावणं रावणिर्नत्वा युद्धायेन्द्रमथाह्वत । क्रीडासु वीरा हि नाग्रं ददति कस्यचित् ॥ ३० ॥ ततश्चैकाङ्गविजयाकाङ्क्षिणाविन्द्ररावणी । सैन्यान्य'पास्यायुध्येतां द्वन्द्वयुद्धेन दुर्द्धरौ ॥ ३१ ॥ मिथः प्रतिहतास्त्रौ तौ रणपारयियासया । युयुधाते नियुद्धेन मदान्धौ सिन्धुराविव ॥ ३२ ॥ रावणिः किमधोऽथेन्द्र ऊर्द्धमिन्द्रोऽथ रावणिः । नालक्ष्यत तयोर्व्यक्तिर्वेगाद्दिपरिवर्त्तिनोः ॥ ३३ ॥ (१) न च - पास्य युद्धे तां । ३६२
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy