SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ३५६ योगशास्त्रे कथुम्बेन कश्चि'चेतनचुम्बेदित्यर्थः । उच्छिष्टमिव भोजनमित्युपमानमनेकविटचुम्बितवेश्यावदनस्योपमेयस्य । अथवा मांसमित्रत्वं सुरामित्रत्वं चोच्छिष्टभोजनेऽपि योज्यम् ॥ ८८ ॥ तथा अपि प्रदत्तसर्वखात् कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति गच्छतः पण्ययोषितः ॥६॥ प्रदत्तसर्वस्वादपि महाधनावस्थायां, पुण्यक्षयात्क्षीणसम्पदः, कामुकात्तत एव गच्छतः स्वगृहं प्रति, वासोऽपि परिधानवस्त्रमपि, आच्छेत्तुं बलाद ग्रहीतुमिच्छन्ति ; पण्यं मूल्यं, तत्प्रधाना योषितो वेश्याः ; अनेन कृतघ्नत्वं तासामाह। यदाह उपचरिताऽप्यतिसाचं प्रकटवधूः क्षीणसम्पदः पुंसः । पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥ १ ॥४०॥ तथा न देवान्न गुरून्नापि मुहृदो न च बान्धवान् । असत्सङ्गरतिनित्यं वेश्यावश्यो हि मन्यते ॥६१॥ वेश्यावश्यः पुमान्न देवादीन्मन्यते, कुत: असत्सङ्गरतिनित्यं असद्भिविटादिभिः सङ्गो असत्सङ्गस्तत्र रतिर्यस्य । वेश्यावश्यस्य हि सुलभा एवासत्सङ्गाः ॥ ८१॥ (१) च, सचेतमः । क. सञ्चेतनः ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy