SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ३४८ योगशास्त्रे स्वर्णादिकेऽप्यन्यधने पुरःस्थे सदा मनीषा दृषदीव येषाम् । सन्तोषपीयूषरमेन टप्ता स्ते द्यां लभन्ते गृहमेधिनोऽपि ॥ ५ ॥ ७५ ॥ इदानीमामुष्पिकमैहिकं चाब्रह्मफलमुपदी गृहस्थोचितं ब्रह्मचर्यव्रतमाहषण्ठत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः । भवेत् खदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥ ७६ ॥ घण्टत्वमामुभिकं परदाररतानां फलं, इन्द्रियच्छेदश्च राजादिकृत ऐहिकं, अब्रह्मण: प्रतिषिद्धस्य मैथुनस्य, वीक्ष्य शास्त्रात्प्रत्यक्षेण वा ज्ञात्वा, स्वदारेषु धर्मपत्नयां सन्तुष्टो भवेदित्येकं गृहस्थब्रह्मचर्यम्, अन्यदारान् वा परसम्बन्धिनीः स्त्रियो विवर्जयेत् । वस्त्रीसाधारणस्त्रीसेवीत्यर्थः इति द्वितीयम् ॥ ७६ ॥ यद्यपि गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृश: पापसम्बन्धोऽस्ति तथापि यतिधर्मानुरक्तो यतिधर्म प्राप्तेः पूर्व गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्म परिपालयति इति तं वैराग्य काष्ठामुपनेतुं सामान्येनाब्रह्मदोषानाह रम्यमापातमात्रे यत् परिणामेऽतिदारुणम् । किंपाकफलसंकाशं तत्कः सेवेत मैथुनम् ॥ ७७ ॥ आपातमात्रे प्रथमारम्भमात्रे, रम्यं मनोहरं, परिणाम (१) छ -कृतमैहिक,।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy