SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः | स तत्र क्षुत्पिपासाभ्यामाक्रान्तो ग्लानिमागतः । चतुर्भिः प्रतिचरितो वल्लवेर्बान्धवैरिव ॥ ५ ॥ स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ॥ ६ ॥ प्रवव्रजुस्ते तत्पार्श्वे चत्वारः शमशालिनः | चतुर्विधस्य धर्मस्य चतस्र इव मूर्त्तयः ॥ ७ ॥ व्रतं तेऽपालयन् सम्यक् किन्तु हौ तत्र चक्रतुः । धर्मे जुगुप्सां चित्रा हि चित्तवृत्तिः शरीरिणाम् ॥ ८ ॥ जग्मतुस्तपसा तौ द्यां जुगुप्साकारिणावपि । स्वर्गाय जायतेऽवश्यमप्येकाहः कृतं तपः ॥ ८ ॥ चुत्वा ततो दशपुरे शाण्डिल्यब्राह्मणावुभौ । युग्मरूपौ सुतौ दास्यां जयवत्यां बभूवतुः ॥ १० ॥ तौ क्रमाद्यौवनं प्राप्तौ पित्रादिष्टौ च जग्मतुः । रक्षितुं क्षेत्रमोदृग् हि दासेराणां नियोजनम् ॥ ११ ॥ तयोः शयितयोर्नक्तं निःसृत्य वटकोटरात् । एक: कृष्णाहिना दष्टः कृतान्तस्येव बन्धुना ॥ १२ ॥ ततः सर्पोपलम्भाय द्दितोयोऽपि परिभ्रमन् । वैरादिवाश तेनैव दष्टो दुष्टेन भोगिना ॥ १३ ॥ तावनाप्तप्रतीकारौ वराकौ मृत्युमापतुः । यथाssयातौ तथा यातौ निष्फलं जन्म धिक्तयोः ॥ १४ ॥ कालिञ्जरगिरिप्रस्थे मृग्या यमलरूपिणौ । मृगावजनिषातां तौ वटधाते सहैव च ॥ १५ ॥ २१३
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy