SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ - योगशास्त्र ततश्चतुर्थादारभ्य षण्मासान् यावदुज्ज्वलम् । विनिर्ममे तपःकर्म कर्मनिर्मूलनाय सः ॥ ८ ॥ तपोभिः कशितः कृत्वा भावसंलेखनां च सः । श्रीवीरमाच्य गिरी पादपोपगमं व्यधात् ॥ १० ॥ शुभध्यान: स्मरन् पञ्चपरमेष्ठिनमस्कियाम् । त्यका देहं जगाम द्यां रोहिणेयो महामुनिः ॥ ११ ॥ रौहिणेय इव चौर्यनिवृत्तः स्वर्गलोकमचिरादुपयाति । तत्सुधीन विदधीत कथञ्चिचौरिकामुभयलोकविरुद्धाम् ॥ ११२ ॥ ॥ इति रोहिणेयकथानकम् ॥ ७२ ॥ स्तेयस्यातिपरिहरणीयतामाह दूर परस्य सर्वखमपहर्तुमुपक्रमः । उपाददीत नादत्तं टणमात्रमपि क्वचित् ॥ ७३ ॥ दूर आस्तां तावत्परस्य सर्वखं निःशेषधनम्, अपहर्तुमुपक्रमः प्रारम्भः, अदत्तं स्वामिना, टणमानमपि नोपाददीत न गृह्णीयात् न तदर्थं यत्नं कुर्यादिति यावत् ॥ ७३ ॥ स्तेयनिवृत्तानां फलं लोकहयेनाह परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां खयमेव स्वयम्वराः ॥७४॥ परार्थग्रहणे परधनहरणे येषां नियमो निवृत्तिः शुद्धचेतसा
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy