SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ३३६ ... योगशास्त्रे 'आसीद्राजरहे सम्पज्जितामरपुरे पुरे। पादाक्रान्तनृपश्रेणिः श्रेणिको नाम पार्थिवः ॥ १ ॥ राजस्तस्य च तनयो नयविक्रमभाजनम् । नाम्राऽभयकुमारोऽभूत् प्रद्युम्नः श्रीपतेरिव ॥ २ ॥ इतश्च तस्मिन्नगरे वैभारगिरिकन्दरे । चौरो लोहखुराख्योऽभूद्रौद्रो रस इवाङ्गवान् ॥ ३ ॥ " स तु राजगहे नित्यं पौराणामुत्सवादिषु । लब्धा छिद्राणि विदधे पिशाचवदुपद्रवम् ॥ ४ ॥ आददानस्ततो द्रव्यं भुञ्जानश्च परस्त्रियः । भाण्डागारं निशान्तं वा निजं मेने स तत्पुरम् ॥ ५ ॥ चौर्यमेवाभवत्तस्य प्रोत्यै वृत्तिर्न चापरा। अपास्य क्रव्यं क्रव्यादा भक्ष्यैस्तप्यन्ति नापरैः ॥ ६ ॥ तस्यानुरूपो रूपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्नयां रौहिणेयोऽभिधानतः ॥ ७ ॥ स्वमृत्युसमये प्राप्ते पित्राऽऽहयेत्यभाषि सः । यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥ ८ ॥ अवश्यमेव कर्त्तव्यमादिष्टं भवतां मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच स: ॥ ८ ॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्टेति निठुरम् ॥ १० ॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विधत्ते देशनां वीरो मा श्रौषीस्तस्य भाषितम् ॥ ११ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy