SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ३२८ हितीयः प्रकाशः । ३२८ अचलोऽयमिति क्षिप्रमुपलक्षितवान् नृपः ।। दृष्ट्वा प्राग्जन्मसम्बन्धमपि प्राज्ञाः स्मरन्ति हि ॥ २६ ॥ राजानं मूलदेवोऽयमित्यज्ञासौत्तु नाचल: । ... आत्तवेषं नटमपि स्थलप्रज्ञा न जानते ॥ २७॥ कुतस्त्वमिति राज्ञोक्त: पारसादित्युवाच सः । ययाचे पञ्चकुलं च भाण्डालोकनकर्मण ॥ २८ ॥ . कौतुकात्स्वयमेष्याम इत्युक्तो भूभुजा स तु। महाप्रसाद इत्यूचे कोपं को वेत्ति तादृशाम् ॥ २८ ॥ ततः पञ्चकुलोपेतो ययौ राजा तदाश्रये । मनिष्ठापट्टसूत्रादि सोऽपि भाण्डमदर्शयत् ॥ ३० ॥ भाण्डं किमियदेवेदं सत्यं ब्रूहीति भूभुजा। ' उक्त इत्युक्तवान् श्रेष्ठी सत्यमेतावदेव मे ॥ ३१ ॥ .. नृपेण पुनरप्यूचे सम्यग् ज्ञात्वा निवेदय । अस्मद्राज्ये शुल्क चौयां यच्छरीरेण निग्रहः ॥ ३२ ॥ अवोचदचलोऽप्येवमस्माभिः कथ्यतेऽन्यथा । पुरतो नापरस्यापि स्वयं देवस्य किं पुनः ॥ ३३ ॥ राजेत्युवाच ती स्य श्रेष्ठिनः सत्यभाषिणः । ... क्रियतामईदानं च सम्यग्भाण्डं च वीक्ष्यताम् ॥ ३४ ॥ ततः पञ्चकुलेनांहिप्रहाराइंशवेधतः । असारभाण्डमध्यस्थं सारभाण्डमशङ्कयत ॥ ३५ ॥ जाताशङ्खस्ततो राजपुंभिर्बिभिदिरे क्षणान् । शुल्कदस्युमनांसीव भाण्डस्थानानि सर्वतः ॥ ३६ ॥ ४२
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy