SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ३१८ योगशास्त्र हृष्टा कुट्टिन्युवाचैवमचलस्वामिनो हले | अचिन्तनीयमौदार्यं पश्य चिन्तामणेरिव ॥ ५ ॥ विषमा देवदत्तोचे किमम्बाऽस्मि करेणुका । भक्षणायेक्षवः क्षिप्ता यत्समूलदलाग्रकाः ॥ ६ ॥ आदिश्यतां मूलदेवोऽप्यस्मिन्नर्थे भुजिष्यया । विवेके ज्ञायते मातर्द्दयोरपि यथाऽन्तरम् ॥ ७ ॥ मूलदेवोऽपि चेव्योक्त इक्षूनादाय पञ्चषान् । मूलाग्राणि त्यजन्मङ्गु निस्ततक्ष विचक्षणः ॥ ८ ॥ कठोरत्वेन दुश्चर्वपर्वग्रन्थोन् परित्यजन् । हाङ्गुला गण्डिकाश्चक्रे पीयूषस्येव कुण्डिकाः ॥ ८ ॥ चतुर्जातन संस्कृत्य कर्पूरेणाधिवास्य च । शूलप्रोता वर्द्धमानसंपुटे प्राहिगोत्स ताः ॥ १० ॥ देवदत्ताऽपि ताः प्रेक्ष्य बभाषे शम्भलीमिति । धूर्तेशाचलयो: पश्य स्वर्णरौर्योरिवान्तरम् ॥ ११ ॥ कुट्टिन्यचिन्तयदहो महामोहान्धमानसा | मृगोव मृगतृष्णाम्भो धूर्त्तमेषाऽनुधावति ॥ १२ ॥ स कोऽप्युपायः क्रियते येन निष्कास्यते पुरात् । प्रत्युष्णजलमेकेन बिलादिव महोरगः ॥ १३॥ कुट्टिनी मूलदेवस्योच्चाटनायाचलं जगौ । कर्त्तव्यः कृत्रिमो ग्रामगमनोपक्रमस्त्वया ॥ १४ ॥ ग्रामे यास्यामीत्यलीकं सार्थवाह त्वमञ्जसा । कथयेर्देवदत्ताया विश्रब्धा सा यथा भवेत् ॥ १५ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy