SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे 'अपतन्मूलदेवोऽपि नृदेवस्य पदाजयोः । राजाऽपि तं प्रसादेन सगौरवमपूजयत् ॥ ८४ ॥ एवं च देवदत्ताऽपि तस्मिन्नत्यनुरागिणी । पुरूरवस्युवंशीवान्वभूद्दिषयजं सुखम् ॥ ८५ ॥ अतिष्ठन्मूलदेवोऽपि न विना द्यूतदेवनम् । भवितव्यं हि केनापि दोषेण गुणिनामपि ॥ ८६ ॥ ययाचे देवदत्ताऽपि धिग् द्यूतं त्यज्यतामिति । नात्यजन्मूलदेवस्त प्रकृतिः खलु दुस्त्यजा ॥ ८७ ॥ तस्यां नगर्यामासोच्च धनेन धनदोपमः ।। सार्थवाहोऽचलो नाम मूर्त्याऽपर इव स्मरः ॥ ८८ ॥ आसक्तो देवदत्तायां मूलदेवाग्रतोऽपि सः । कृतस्वीकरणो भाव्या बुभुजे तां निरन्तरम् ॥ ८८ ॥ ईष्या स मूलदेवाय महतौं वहति स्म च । ' अन्विष्यति स्म तच्छिद्राण्युपद्रवचिकीर्षया ॥ ४० ॥ तच्छतया मूलदेवोऽप्यगात्तद्देश्मनि च्छलात् । पारवश्येऽप्यविच्छिन्नो रागः प्रायेण रागिणाम् ॥ ८१ ॥ देवदत्तां जनन्यूचे धूर्ततामृगधूर्त्तकम् । निर्धनं द्यूतकारं च मूलदेवं सुते त्यज ॥ ८२ ॥ प्रत्यहं विविधं द्रव्यं यच्छत्यस्मिन् रमस्व तत् । अचले निश्चलरती रम्भेव धनदात्मजे ॥ ८३ ॥ (१) च न्यपतन् ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy