SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ३१४ योगशास्त्रे यथा पदमकार्षीत्वं हृदये मम सुन्दर | विदधीयास्तथा नित्यमस्मिन्नेव निकेतने ॥ ६२ ॥ मूलदेवोऽप्य॒वाचैवं निर्धनेषु विदेशिषु । अस्मादृशेषु युष्माकमनुबन्धो न युज्यते ॥ ६३ ॥ गुणानां पक्षपातेनानुरागो निर्धनेऽपि चेत् । वेश्यानामर्जनाभावात्कुलं सोदेत्तदाऽखिलम् ॥ ६४॥ बभाषे देवदत्ताऽपि को विदेशो भवादृशाम् । सर्वः स्वदेशो गुणिनां नृणां केसरिणामिव ॥ ६५ ॥ आत्मानमर्थयन्त्यर्थेर्मूर्खा हि बहिरेव नः । प्रवेशं न लभन्तेऽन्तविना त्वां गुणमन्दिर ॥ ६६ ॥ सर्वथा प्रतिपत्तव्यं त्वया सुभग मद्दचः । इत्युक्ते मूलदेवेनाप्यामेति जगदे वचः ॥ ६७ ॥ ततश्च क्रीडतोः स्नेहाद्दिनोदैर्विविधैस्तयोः । राजद्दाःस्थोऽब्रवीदेत्यागच्छ प्रेक्षाक्षणोऽधुना ॥ ६८ ॥ छन्नवेषं मूलदेवं सा नीत्वा राजवेश्मनि । राज्ञोऽग्रे नृत्यमारेभे रम्भेव करणोज्वलम् ॥ ६८ ॥ शक्रपाटहिकसमः पाटप्रकटने पटुः । मूलदेवोऽपि निपुणोऽवादयत्पटहं ततः ॥ ७० ॥ राजाऽरज्यत नृत्तेन तस्याः करणशालिना । प्रसादं मार्गयेत्यूचे तं च न्यासीचकार सा ॥ ७१ ॥ सा मूलदेवसहिता जगौ चानु ननर्त्त च । ददौ चास्यै नृपस्तुष्टः स्वाङ्गलग्नं विभूषणम् ॥ ७२ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy