SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ __ योगशास्त्रे विश्वभूतिस्ततः कोपादसंबद्धमभाषत । प्राज्ञैः पृष्टा ह्युपाध्यायाश्छादयन्त्यज्ञतां रुषा ॥ ४२ ॥ त्वमेवं 'नाटयेर्नाट्याचार्य नारीषु नान्यतः । हसितो मूलदेवेन तृष्णीकः सोऽप्यजायत ॥ ४३ ॥ स्मेराक्षी देवदत्ताऽपि पश्यन्ती वामनं मुदा । उपाध्यायस्य वैलक्ष्यमपनेतुमवोचत ॥ ४४ ॥ इदानीमुत्सुका यूयमुपाध्यायाः क्षणान्तरे । परिभाव्याभिधातव्यं प्रश्ने विज्ञानशालिनाम् ॥ ४५ ॥ देवदत्ते वयं यामो नाट्यस्यावसरोऽधुना। . सज्जस्व त्वमपीत्युक्त्वा विश्वभूतिस्ततो ययौ ॥ ४६ ॥ देवदत्ताऽप्यथादिक्षदावयोः मानहेतवे । अङ्गमर्दो निर्विमदं कश्चिदाहूयतामिति ॥ ४७ ॥ अजल्पडूतराजोऽपि व्याहार्बर्माऽङ्गमर्दकम् । सुधू यद्यनुजानासि तवाभ्यङ्गं करोमि तत् ॥ ४८ ॥ किमेतदपि वेत्सीति तयोक्त: प्रत्युवाच सः । न जानामि स्थित: किन्तु तज्ज्ञानामहमन्तिके ॥ ४८ ॥ आदेशाद्देवदत्तायाः पक्वतेलान्यथाययुः । अभ्यङ्ग कर्तुमारेभे स मायावामनस्ततः ॥ ५० ॥ मृदुमध्यदृढं स्थानौचित्यात् पाणिं प्रसारयन् । अङ्गे तस्या मूलदेवः सुखमद्दतमादधे ॥ ५१ ॥ (१) ख च ड छादये-। (२) च निर्विमर्दः ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy