SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः | राज्ये निवेशयाञ्चक्रे तस्य प्रकृतिपूरुषः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः ॥ ६४ ॥ स तु मातृमुखाच्छ्रुत्वा मृत्युव्यतिकरं पितुः । श्रदिष्टा हरिवागत्य जमदग्निममारयत् ॥ ६५ ॥ रामः पितृवधक्रुडो द्राग्गत्वा हस्तिनापुरे । अमारयत्क्कतवीर्यं किं यमस्य दवीयसि ॥ ६६ ॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥ ६७ ॥ रामाक्रान्तपुराद्राज्ञौ कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेणीवागमत्तापसाश्रमम् ॥ ६८ ॥ कृपाधनैर्भूग्टहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात्परशुरामतः ॥ ६८ ॥ चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽजनि । ग्गृह्णन् भूमिं सुखेनाभूत्लुभूमो नामतस्ततः ॥ ७० ॥ क्षत्रियो यत्र यत्त्रासीत्तत्र तत्राप्यदीप्यत । पर्शुः परशुरामस्य कोपाग्निरिव मूर्त्तिमान् ॥ ७१ ॥ रामोऽगादन्यदा तत्त्राश्रमे पर्शुश्च सोऽज्वलत् । क्षत्रं चासूचयडूम इव धूमध्वजं तदा ॥ ७२ ॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपखिनः । इत्यचुस्तापसीभूताः चत्रिया वयमास्महे ॥ ७३ ॥ रामोऽप्यमर्षात्रिःक्षत्रां सप्तकृत्वो वसुन्धराम् । निर्ममे निस्तृणां शैलतटोमिव दवानलः ॥ ७४ ॥ २७ २०८
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy