SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । आसीत्सत्यधनः कोऽपि कौशिको नाम तापसः । अपास्य ग्रामसंवासमनुगङ्गमुवास सः ॥ १ ॥ कन्दमूलफलाहारो निर्ममो निष्परिग्रहः । सत्यवादितया प्राप प्रसिद्धिं परमामसौ ॥ २ ॥ मुषित्वा ग्राममन्येद्युर्दस्यवस्तस्य पश्यतः । आश्रमं निकषा जग्मुर्वनं बिलमिवोरगाः ॥ ३ ॥ तेषामनुपदिनस्तु ग्राम्याः पप्रच्छुरेत्य तम् । सत्यवाद्यसि तद्ब्रूहि तस्कराः कुत्र वव्रजुः ॥ ४ ॥ धर्मतत्त्वानभिज्ञोऽथ कथयामास कौशिकः । 'घने तरुनिकुजेऽस्मिन् दस्यवः प्राविशन्निति ॥ ५ ॥ तस्योपदेशात्सन्नह्य ग्रामीणाः शस्त्रपाणयः । वनं प्रविश्य निर्जघ्नुर्दस्यून् व्याधा मृगानिव ॥ ६ ॥ ऋतमप्यनृतं परव्यथाकरणेनेदमुदीरयन् वचः । परिपूर्य निजायुरुत्वणं नरकं कौशिकतापसो ययौ॥७॥६१॥ अल्पमप्यसत्यवचनं प्रतिषेधितुं महदसत्यं वदतः परिदेवयते— ३०१ अल्पादपि मृषावादाद्रौरवादिषु संभवः । अन्यथा वदतां जैनौं वाचं त्वहह का गतिः ॥ ६२ ॥ अल्पादप्यैहिकार्थविषयत्वेन स्तोकादपि मृषावादादसत्याद्रौरवादिषु रौरवमहारौरवप्रभृतिषु नरकवासेषु संभव उत्पत्ति: लोकप्रसिडत्वाद्रौरवग्रहणम् । अन्यथा सर्वनर केष्वित्युच्येत । अन्यथा ( १ ) चड मे । .
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy