SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाश: । एवं तावदपौरुषेयवचनाभिहितस्यासम्भवादिना । अभावमभिधायासर्वज्ञपुरुषवक्तृकस्य धम्मस्याप्रामाणिकत्वमाह मिथ्यादृष्टिभिरामातो हिंसाद्यैः कलुषीकृतः । . स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥१३॥ मियादृष्टिभिर्हरिहरहिरण्यगर्भकपिलबुद्धादिभिराम्नात आत्मोपज्ञतया प्रतिपादितः । यत्तदोनित्याभिसम्बन्धाद्यो मिथ्यादृष्टिभिरामातः स धर्मत्वेन मुग्धबुद्धीनां प्रसिद्धोऽपि भवनमणकारणमधर्म एवेत्यर्थः । कुत इत्याह । हिंसाद्यैः कलुषोलत इति । मिथ्यादृष्टिप्रणीता ह्यागमा हिंसादिदोषदूषिताः ॥ १३ ॥ इदानीमदेवागुर्वधर्माणां साक्षेपं प्रतिक्षेपमाह सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात्कष्टं नष्टं हहा जगत् ॥१४॥ रागग्रहणमुपलक्षणं देषमोहयोः । अब्रह्मचारित्वमुपलक्षणं प्राणातिपातादीनाम् । कपाहीनत्वमुपलक्षणं मूलीत्तरगुणहीनत्वस्य । चेच्छन्दः प्रत्येकमभिसम्बध्यते। आक्षेपं प्रकटयति। कष्टमिति खेदे नष्टं जगत् देवगुरुधर्मशून्यत्वेन विनष्टं दुर्गतिगमनात् । हहा निपातः खेदातिशयसूचकः ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy