SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ यदाह प्रथमः प्रकाशः । लज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्त्तमानाः । तेजखिनः सुखमसूनपि सन्त्यजन्ति १५८ सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १ ॥ ३० ॥ तथा सह दयया दुःखितजन्तु दुःखत्राणाभिलाषेण वर्त्तत इति सदयः । धर्मस्य दया मूलमिति ह्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह • प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानव ॥ १ ॥ ३१ ॥ तथा सौम्योऽक्रूराकारः क्रूरो हि लोकस्योद्देगकारणम् ॥३२॥ तथा परोपकृतौ परोपकारे कर्मठः कम्मैशूरः कमाणि घटते "तत्र घटते कर्म्मणष्ठ: " ॥ ७ । १ । १३७ ॥ इति ठः परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ॥ ३३ ॥ तथा अन्तरङ्गश्वासावरिषड्वर्गश्चान्तरङ्गारिषड्वर्ग स्तस्य परिहारोऽनासेवनं तत्र परायणस्तत्परः । तत्रायुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः शिष्टग्टहस्थानामन्तरङ्गोऽरिषड्वर्गः । तत्त्र परपरिग्टहोताखनूढासु वा स्त्रीषु दुरभिसन्धिः कामः । परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः । दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोही युक्तोक्ता
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy