SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६४ चिकित्साकलिका | श्वदंष्ट्रा गोतुरः । एतल्लघुपञ्चमूलं पित्तानिलोल्वणविकारहरम् । सप्तदशोऽयं गणः । आभ्यां । पृथुलघुपञ्चमूलाभ्यां दशमूलसंशो गणो भवेदष्टादशः ॥ ६४ ॥ लघुपञ्चमूल—-छोटी कटेरी, बड़ी कटेरी, शालिपर्णी, पृष्टपर्णी, गोखरू । ये एकत्र मिलित लघु पञ्चमूल कहलाता है । यह गण वातपित्तज व्याधियों को हरता है ॥ दशमूल—महत्पञ्चमूल तथा लघुपञ्चमूल एकत्र संयुक्त दशमूल कहलाता है ॥ ६४ ॥ तस्य गुणानाह प्रायस्त्रिदोषशमनं पवनामयेषु श्लेष्मोल्वणेषु च गदेषु भिषग्भिरुक्तम् । कासेषु सन्निपतितेषु शिरोरुजायां वासेषु हिकिषु हितं दशमूलमेतत् ।। ६५ ।। एतत् दशमूलं प्रायो बाहुल्येन त्रिदोषशमनम् । त्रीन् दोषान् शमयतीति त्रिदोषशमनम् । भिषग्भिर्वैद्यैः कथितम् । केषु ? पवनामयेषु वातविकारेषु । गदषु रोगेषु । श्लेष्मोल्वणेषु च कफविकारेषु गदेषु कथितम् । एतत् दशमूलं कासेषु सन्निपातेषु शिरोरुजायां श्वासेषु हिक्कषु च हितमिति प्रत्येकमभिसम्बन्धः । तत्र च हितयोगे चतुर्थी वक्तव्या तत्कथमत्र सप्तमी ? तत्रोच्यते - हितयोगे षष्ठसिप्तमीचतुर्थी विभक्तयो दृश्यन्ते ॥ ६५ ॥ यह दशमूल त्रिदोषशामक तथा वातरोग, कफरोग, कास (खांसी), सन्निपात, शिरोरोग, श्वास एवं हिक्कारोग में हितकर कहागया है ॥ ६५ ॥ इदानीं वातपित्तकफरोगाणां पूर्वोक्तगणैस्तैलादियोगकल्पनाबाहअष्टादशभिरमीभिर्द्रव्यगणैर्वीक्ष्य वातपित्तकफान् । योगा रोगार्त्तानां विभज्य भिषजा प्रकल्प्यन्ते ॥ ६६ ॥ तैलघृतचूर्ण कल्कप्रलेपसे कावगाहपानानि । आस्थापनानुवासननस्याञ्जनवस्तिविधयश्च ।। ६७ । भिषजा वैद्येन योगाः प्रकल्प्यन्ते । के ? तैलादयः । केषां ? रोगार्त्तानाम् । किं कृत्वा ? वक्ष्य। कान् ? घातपित्तकफान् लिङ्गद्वारेण । कैः कल्प्यन्ते ? अमीभिर्गणैरष्टादशभिर्विभज्य वातादिप्रत्यनीकान् ।
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy