SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ चिकित्साकलिका | साम्प्रतं वातादिकोपलक्षणं यत् सूत्रितं पूर्वं कुपितस्य लिङ्ग मिति तदाह - ४७ वातपित्तकफकोपलक्षणं सूत्रितं यदिह तंत्रसंग्रहे । द्योत्यते तदिह साम्प्रतं मया रुक्परीक्षणमनेन कारयेत् ॥ ३३ ॥ इह पूर्व सूत्रसंग्रहे कुपितस्य लिङ्गं निरूपणीयमिति यत्सूत्रितं तद्वातपित्तकफकोपलक्षणं द्योत्यते प्रकटीक्रियते सांप्रतं मया । अनेन वक्ष्यमाणेन लक्षणेन रुक्परीक्षणं रुजां विकाराणां ज्वरादीनां वातादिजानां परीक्षणं कारयेदिति ॥ ३३ ॥ लक्षण इस ग्रन्थ में प्रथम कुपित हुए २ दोषों के लक्षण जानने चाहियें ऐसा कहा गया है । अतएव प्रकुपित वात, प्रकुपित पित्त तथा प्रकुपित कफ I अब कहे जांगे । इन्हीं लक्षणों से व्याधि के वातज, पित्तज अथवा कफज होने की परीक्षा करनी चाहिये ॥ ३३ ॥ साम्प्रतं येन लक्षणेन विकाराणां परीक्षणमुक्तं तत्तस्य कुपितस्य लिंगमाह - दृशि शिरसि च शंखश्रोत्रनेत्रान्तरेषु अवि हृदि हनुमन्यास्कन्धमूर्द्धार्द्धसन्धौ । ७ रुगति निशि दिवाल्पा स्यादकस्मात्प्रशान्ता भवति हि भुजजंघास्तब्धसंकोचता च ।। ३४ ।। कटिविटपयकृत्सु क्लोनि च लीह्नि पृष्ठे जठर वृषणवक्षः कुक्षिकक्षाक्षकेषु । प्रसरति गुरु शूलं नाभिवस्तिस्तनेषु त्रिकगुदवलिगुह्योपान्तपक्षद्वयेषु ।। ३५ ।। वदनविरसता स्याद्वर्चसः कर्कशत्वं भवति वपुषि का रात्रिनिद्रानिवृत्तिः । त्वचि च परुपता स्यात् स्याच्च वैषम्यमनेरिति पवनविकारे लक्षणं प्रोक्तमेतत् ।। ३६ ।।
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy