SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१६ चिकित्साकलिका। षडविन्दुतल-तिलतैल २ प्रस्थ। भांगरे का रस ८ प्रस्थ। दूध ८ प्रस्थ। कल्कार्थसोये, मुलहठी, वायविडंग,एरण्डमूल, जीवन्ती, रास्ना, तगर, सैन्धानमक, सोंठ, दारचीनी, प्रत्येक १ पल । यथाविधि साधित करें। यह तैल नेत्र, दांत, शिर; प्रभृति के रोगों को नष्ट करता है । इस तैल की ६ बूंदें नस्य द्वारा प्रयुक्त की जाती हैं ॥ ३२२ ॥ अधुना पलितघ्नं तैलमवोचत्असनसारकषायविपाचितं त्रिफलया मधुकेन च संयुतम् । भवति नावनतैलमनुत्तमं पलितनेत्रविकाररुजापहम् ॥ ३२३ ।। पलितं च नेत्रं च पलितनेत्रे तयोः पलितनेत्रयोर्विकाररुजः । पलितनेत्रविकाररुजः पलितं अकालजरा । नेत्रविकारा नेत्ररोगास्तस्य रुक् पीडा तामपहन्तीति पलितनेत्रविकाररुजापहं भवतीत्यर्थः । असनसारकषायेण बीजसारकषायेण त्रिफलया मधुकेन च संयुतम् । त्रिफला पूर्वोक्ता । मधुकं यष्टीमधु तेन युतं संयुक्त नावनतैलं नस्यतैलं भवतीति ॥ ३२३॥ पलितनतैल-तिलतैल २ प्रस्थ । असन (पीतशाल, बिजेसार) काष्ठ का क्वाथ ८ प्रस्थ । कल्कार्थ-त्रिफला, मुलहठी; प्रत्येक २ पल। यथाविधि सिद्ध कर नस्य लेने से पलित (केशों का श्वेत होजाना) तथा नेत्ररोग नष्ट होते हैं ॥ ३२३ ॥ अधुना द्वितीयं पलितघ्नं तैलमाह दुग्धेन मार्कवरसेन चतुर्गुणेन तैलं भृतं त्रिफलया मधुकेन वापि । नस्यप्रदानविधिना पलितानि हन्या दभ्यङ्गतः शिरसि बस्तिविधारणैश्च ।। ३२४ ॥ दुग्धेन चतुर्गुणेन मार्कवो भृङ्गस्तस्य रसेन चतुर्गुणेन त्रिफलया मधुकेन च प्रत्येकं पलप्रमाणेन कल्कीकृतेन तैलप्रस्थं शृतं पक्वं पलितानि हन्यात् । केनोपायेन ? नस्यप्रदानविधिना । अभ्यङ्गतः -आशिरो व्यायतं चर्म कृत्वाष्टाङ्गुलमुच्छ्रितम् । तेनावेष्ट्य शिरोऽधस्तन्माषकल्केन लेपयेत् । निश्चलस्योपविष्टस्य तैलैरुष्णैः प्रपूरयेत् धारयेदारुजः शान्तर्यामं यामार्द्धमेव वा। शिरोवस्तिर्जयत्येषा शिरोरोगं मरुद्भवम् ॥ हनुमन्याक्षिकर्णातिमर्दितं मस्तकम्पनम् । तैलेनापूर्य मूर्धानं पञ्चमात्राशतानि च । तिष्ठेच्छ्लेष्मणि पित्तेऽष्टौ दश वाते शिरोगदी॥
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy