SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ - प्रमाणवार्तिकम् नमोबुद्धाय ॥ १. नमस्कारश्लोकः-- १ (विधूतकल्पनाजालगम्भीरोदारमूर्तये । . नमः समन्तभद्राय समन्तस्फरणत्विषे) ॥१॥ T.420b Ib यो विध्वस्तसमस्तबन्धनगतिस्सम्यग् वशित्वे स्थितः (,) सर्वज्ञेयविसारिनिर्मलतमज्ञानप्रबन्धोदयः । सत्त्वार्थोद्यतमानसश्च सुचिरं श्रीमञ्जुनाथो विभुः (,) तन्नत्वा बहुशोद्य वात्तिकगतं किञ्चिद्विवक्षाम्यहं । टीकाकृतः सकल एव गुणः स एष ब्रूतेत्र वस्तुगहनेपि यदस्मदादिः । दिग्नागदन्तमुस (? श) लैविषमेऽपनीते लब्धेषु वर्त्मसु सुखं कलभाः प्रयान्ति। यो मामवज्ञायति कोपि गुणाभिमानी जानात्यसौ किमपि तं प्रति नैष यत्नः । कश्चिद् भविष्यति कदाचिदनेन चार्थी नानाधियाजगति जन्मवतां हि नान्तः।। यद्यपि हि शास्त्रारम्भे नमस्कारश्लोकोपन्यासमन्तरेण कायवाङमनोभिरिष्टदेवतानमस्कारकरणेन पुण्योपचयादविघ्नेन शास्त्रस्य, परिसमाप्तिर्भवति । तथापि व्याख्यातृश्रोतृणां स्तुतिपुरस्सरया प्रवृत्त्या पुण्यातिशयोत्पादात् पारार्थ्य सदाचारानुपालनं चालोच्य विशिष्टदेवतापूजाश्लोकमुपन्यस्तवानाचार्यः । विधूतकल्पनेत्यादि। यदा समन्तभद्रशब्दो रूढया बोधिसत्त्ववृत्तो न गृह्यते तदेयं बुद्धस्य भगवतः पूजा। सा च द्विधा स्तोत्रतः प्रणामतश्च। नमःशब्देन प्रणामतः परिशिष्टः स्तोत्रतः। स्तोत्रमपि स्वार्थसम्पत्तितः परार्थसम्पत्तितः परार्थसंपदुपायतश्च विधा। स्वार्थसम्पन्नश्च परार्थप्रति समर्थो भवतीपि 1 The reading in the bracket ( ) is from PVb. 2 Stan-hgyur. 3 A parady of Bhavabhūti's Malatimadhavam 1:4.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy