SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [ स्वरान्तपुंलिंगाः ] टीकाद्वयोपेता। (५९) अधातोरिति किम् । श्रियं भवमित्यादावियुवौ । सेनान्यं खलप्वमित्यादौ य्वौ । सोमपामित्यादौ सवर्णदीर्घः ॥ समानादिति किम् । रायम् । ग्लावम् ॥ (तत्त्वदी० )-अम्शसोरस्येति ॥ अत्र समाना लोपोऽधातोरिति सूत्रात्समानलोपावनुर्तेते इत्याशयेनाह-समानादिति ॥ समानादिति किम् । रायम् । अत्र स्याद्यधिकारस्यैवामोग्रहणादधातोरिति नानुवर्त्यम् । अतोऽचिनवमित्यादौ नातिव्याप्तिः ॥ अस्येति किम् । षष्ठीनिर्दिष्टत्वेनान्त्यत्य मा भूत् ॥ न च 'सो नः पुंसः' इत्यत्र सकारस्य नवविधेलिङ्गान्नान्त्यस्य विधिरन्यथा शसः सकारस्यान्त्यत्वेन लोपे तदभावान्नत्वसंभवः स्यादिति वाच्यम् तत्र 'सो नः पुंसः' इत्युक्त्या ज्ञापनासंभवात् । नहि तत्र शसोन इत्युक्तं येन ज्ञापकं स्यात् । न च सो न इत्यत्रापि शसः सकारस्यैव ग्रहणमिति वाच्यम् । नहि शस्येव सकारो नान्यत्रेति नियमोऽस्ति येन ज्ञापकमिदं स्यात् ॥ यत्तु लघुभाष्यम् । अत्र 'आदबे लोपश्' इत्यत आदित्यस्यानुवृत्तेरस्येति व्यर्थमिति कश्चित् इति । अत्रेदमवधेयम् ।आदित्यस्य पञ्चम्यन्तत्वेन षष्ठयर्थालाभात् । अथार्थवशाद्विभक्तिविपरिणामेन षष्ठयर्थलाभः। विभक्तिविपरिणामे त्वर्थलाभस्यातिक्लिष्टत्वेऽन्त्यस्येत्यस्यैवावश्यकत्वात् ॥ (सो नः पुंसः) पुल्लिङ्गात्समानादुत्तरस्य शसः सकारस्य नकारादेशो भवति न त्वाम्शसीत्यात्वे ॥ (सुबोधिनी)-सो नः पुंसः ॥ पुंल्लिङ्गात्समानान्नाम्नः परस्य शसः सस्य नः स्यात् ॥ शस इत्यनुवृत्तम् लिङ्गं नामार्थ इति मते पुंस इति पञ्चमी । पुल्लिङ्गात्समानान्तानाम्न इति । यदा तु लिङ्गं प्रत्ययार्थस्तदा पुस इति षष्ठी । समानान्तान्नाम्न: परस्य पुंसो वाचकस्य शसः सस्य नः स्यादिति ॥ उक्तं च "एक दिकं त्रिकं चाथ चतुष्कं पञ्चकं तथा । नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥"इति ॥ स्वार्थद्रव्यलिंगसंख्याकारकात्मकः पञ्चको नामार्थः। उक्तपञ्चसु पूर्वस्य पूर्वस्य नामार्थत्वे परः परो विभक्त्यर्थों ज्ञेयः। शब्दप्रवृत्तिनिमित्तः स्वार्थोऽस्ति । स्वार्थश्चानेकविधः स्वरूपजातिगुणक्रियाद्रव्यसंबन्धभेदात् ॥ स्वरूपं यथा । डित्थः यदा शब्दरूपेण विशिष्टा जातिः कथ्यते गौरिति तदा गोशब्दस्य स्वरूपं स्वार्थोऽस्ति विशेषणत्वात् जातिस्तु द्रव्यं भवात विशेष्यत्वात्।यदा जात्या विशिष्टो गुणः कथ्यते पटस्य शुक्लो गुण इति तदा जातिःस्वार्थों भवति विशेषणत्वात्।शुक्लागुणोद्रव्यं भवति विशेष्यत्वात् यदा गुणेन विशिष्टं द्रव्यं कथ्यते शुक्ल पटइति यदा विशेषणभूतोगुणःस्वार्थों भवति । विशेष्यभूतं पटादिकं द्रव्यं भवति । यदा तु द्रव्यमाप द्रव्यान्तरस्य विशेषणं भवति यष्टीः प्रवेशयेत्यादौ तदा यष्टयादिकं द्रव्यं विशेषणत्वमापन्नं स्वार्थो भवति। पुरुषादिविशेषणं द्रव्यं भवति। दण्डीत्यादौ दंडपुरुषसंबन्धः स्वार्थों भवति । दंडीति द्रव्यं विशेषणं भवति । पाचक इत्यादौ क्रिया स्वार्थों भवति । पुरुषो द्रव्यं भवति । किञ्च"शब्दस्य यत्र विश्रान्तिर्वाच्यं द्रव्यं तदिष्यते ।" पर्यवसानभूमिरित्यर्थः।।तच्चानेक
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy