SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ [ संज्ञाप्रकरणम् ] टीकाद्वयोपेता। (५) लाभात्पृथगाकारादयो नोपदिष्टास्तथा ऋलवर्णयोरपिसावात ऋकारोपदेशेनैवोभयग्रहणसिद्धेः किं पृथगुपदेशः।उच्यते।ऋलवर्णयोः सावर्ण्यस्यानित्यतां ज्ञापयितुमुभयोरुदेशातत्फलं तु क्लप्ता शिखा यस्य स क्लप्तशिखस्तस्य दूरात्संबोधने क्लप्तशिखेस्त्रप्लुतभवनम्।ऋलवर्णयोः सावर्ण्यस्य नित्यत्वे तु गुरोरनृतोऽनन्त्यस्यापीत्यत्रान्त इति निषेधाहकारस्येव लकारस्यापि प्लुतो न स्यादित्यर्थः। इदं सूत्र कार्यद्वयं वक्ति। तत्किम् । अकारादिक्रमं तेषां समानसंज्ञां चासमानं मान परिमाणं यषां ते समानाः। समानशब्दः संज्ञा। अकारादयः संज्ञिन इति।इह प्रत्येकमकारादीनां संज्ञा न समुदा यस्य तस्य युगपल्लक्ष्ये प्रयोगाभावात्। समानसंज्ञाप्रदेशा:समाना लोपोधातारित्यादयः। किंच एतेषूक्तवक्ष्यमाणेषु सूत्रेषु संधिः संहिता नानुसन्धेयो न कर्तव्यः। कस्मात् वक्तुमिच्छा विवक्षा विवक्षा जाताऽस्यति विवक्षितः । वक्तुमिश्रो विवक्षित इति वा । विवक्षितस्य भावो विवक्षितत्वं न विवक्षितत्वम् अविवक्षितत्वं तस्मादविवक्षितत्वात् वक्तुरनिष्टत्वात् । तथा हि वाक्ये तु सा विवक्षामपेक्षते ' इति ॥ (तत्त्वदी०)-प्रकृतोपयुक्तमाह ॥ अइउऋल समानाः॥ अत्र प्राञ्चः । षट्पदमिदम्,न तु द्विपदम्।द्विपदत्वे हि पूर्वपदं पञ्चवर्णात्मकम्।तथा च समाहारद्वन्द्वः स च अश्व इश्व उध आ च आ च अइउऋलाएवं समासे संहिता स्यादिति। तथा चोक्तम्-"संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते॥"इति।।समासे वाक्यत्वाभावेन विवक्षाया असंभवादविवक्षितत्वादित्यादिकमनर्थकं संपद्येत।अतो न द्विपदमित्याहुः।वस्तुतस्तु नैतेषु संधिः सूत्रत्वादित्येव वक्तुमुचितमातथाच द्विपदत्वेऽपिनदोषः।उक्तं चाभोभगोअघोअपूर्वस्य योऽशीति पाणिनिसूत्रे असंधिः सौत्रः इति भट्टोजिदीक्षितैः।औ निपात इति सूत्रेण संधिविरहात्। अत्राहुः। अत्राकारादीनां स्वरूपेणानुकार्येण वाऽर्थस्य सतोऽप्यविवक्षणान्नामत्वाभावाद्विभक्त्यनुत्पादादसमासेनैकपदत्वाभावात्पञ्च पदानीति।तत्रेदमवधेयम्।पञ्च पदानीति तावद्वयाहतम्।विभक्तेरनुत्पादेन पदत्वासंभवात् । विभक्त्यन्तं पदमिति पदसंज्ञाविधानात् । किंतु सूत्रत्वादेव विभक्तेलक्। वर्णपरिगणनस्य संज्ञोपयोगित्वेन तत्पूर्वकं संज्ञाविधानमिति दर्शयति । अनेनेति ॥ अमि पूर्व इत्यादाविवार्थद्वयकथनेन विभागः । (इस्वदीर्घप्लुतभेदाःसवर्णाः) एतेषां ह्रस्वदीर्घप्लुताः सजातीयाः परस्परं सवर्णा भण्यन्ते ॥ (सुबोधिनी )-हस्वदीर्घप्लुतभेदाः सवर्णाः एतेषाम् अइउऋलवर्णानां ये भेदा विशेषव्यक्तयो ह्रस्वदीर्घप्लुतरूपाः सजातीयाः समाना चासौ जातिश्च सजातिः सहादित्वात्समानस्य सादेशः सजातौ भवाः सजातीयास्ते मिथः सवर्णसंज्ञका आचायेण कथ्यन्ते॥ह्रस्वश्च दीर्घश्च प्लुतश्च ते ह्रस्वदीर्घप्लुताः हस्वदीर्घप्लुताश्च ते भेदाश्च हस्वदीर्वप्लुतभेदाः जातिस्थानाभ्यां समानाः वर्णाः । सहादित्वात्समानस्य सः॥
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy