________________
८२ ]
इति परपक्षेष्वसिद्धेन गोत्वादिनाऽनैकान्तिकचोदनाविरुद्धः । उभयपक्षसम्प्रतिपन्नस्त्वनैकान्तिकः । यदुभयपक्षं प्रतिपन्नं वस्तु तेनानैकान्तिकचोदनेति ।
वादन्यायः
अत्रापि प्रतिज्ञार्थ : साधनवाक्ये प्रयोगप्रतिषेधात् । तदाश्रयस्तत्कृतो वा हेतुदृष्टान्तयोर्न विरोध इति न प्रतिज्ञाविरोधो नाम किञ्चिन्नि ग्रहस्थानं ।
स्यादेतदसत्यपि प्रतिज्ञाप्रयोगे गम्य मानोपि प्रतिज्ञाहेत्वोर्विरोधो भवति । यथा रूपादिभ्योऽर्थान्तरस्यानुपलब्धिस्तद्गुणव्यतिरिक्तं नोपलयभ्यते च रूपादिभ्योऽर्थान्तरं द्रव्यमित्युक्तेपि गम्यत एव साध्यसाधनयोर्विरोधः कथन्ततोऽर्थान्तरस्यानुपलब्धिस्तद्वयतिरेकश्चेति । सत्यं स्यादयं विरोधो यदि हेतुः साध्यधर्मविपर्ययं साधयेत् । यदि ह्युपलब्धिलक्षणव्याप्तत्वेनोपगतस्य' सतो द्रव्यरूपादिप्रतिभासविवेकेन स्वप्रतिभासानुपलब्धिस्तस्यतद्वयतिरेके नास्तीतीष्टव्यतिरैकविपर्ययसाधनाद्विरुद्धो हेतुरस्माभिरुक्त एवेति । भवत्येवेदं निग्रहाधिकरणं यद्येवंविधः प्रतिज्ञाहेतोर्विरोध इष्टः । अथ पुनरस्योपलब्धिलक्षणप्राप्तिलुप्यते तदा न कश्चित्प्रतिज्ञाहेतोर्विरोधः व्यतिरिक्तानामपि भावानां कुतश्चिद्विप्रकर्षाणां तद्वयतिरेकेणानुपलब्धावपि व्यतिरेकस्य भावात् ।
यदुक्तं (–) स्ववचनप्रतिज्ञायाः स्ववचनविरोधे प्रतिज्ञाविरोध इति । तत्रेदमेव निग्रहाधिकरणमसाधनाङ्गभूतायाः प्रतिज्ञायाः साधन
तु वैशेषिक एव प्रमाणङ्करोति । परस्तं व्यभिचारयतीति भेदः । यदि तहि गो' त्वादिना व्यभिचारे कृते विरुद्धमुत्तरं तथा सत्यनैकान्तिको निर्विषय इत्याह । उभयेत्या (1024) दि । वादिप्रतिवादिप्रसिद्ध उभयपक्षसंप्रतिपन्नः सोऽनैकान्तिकस्तद्विषयत्वादुपचारेण तथा च वृत्तिस्तेनानैकान्तिकचोदनेति । अत्रापी (1023) त्यादि । नैतदपि प्रतिक्षिपति तदाश्रयः सा प्रतिज्ञाऽभयो यस्य विरोधस्य स तथा । तत्कृतो या प्रतिज्ञया कृतः । परिशिष्टमतिस्फुटं । व्यतिरिक्तानामपि कुतश्चित् पर्वतादेः सकाशाद्विप्रकर्षिणाम्पिसा [? शा] चादीनां तत्रेदमेव निग्रहाधिकरणं । यदुत प्रतिज्ञायाः प्रयोगः । न विरोधः प्रतिज्ञायाः निग्रहाधिकरणमिति वर्तते । किमिति । तदधिकरणत्वात् । प्रतिज्ञाश्रयत्वात् इत्यर्थः । यदि पुनस्तदधिकरणो न भवेद्
१ न्यायवर्तिके ( पृ० ५५३-४ ) स्वल्पभेदेन ।