________________
१-निग्रहस्थानलक्षणम्
[७३ निराकर्त्तव्यः । निर्दोषे साधनाभिधानेपि वादिनः प्रतिवादिना दोषाभास उद्भाविते दूषणाभावत्त्वख्यापन एव जयपराजयौ नान्यथा (,)भावतस्तत्त्वाभिधानेपि प्रतिपक्षनिराकरणेन तत्त्वस्य प्रख्यापनासामर्थ्यात् (।) न प्रतिवादिनोप्यत्र भावतो मिथ्याप्रतिपत्तेरिति । इदं न्याय्यं निग्रहस्थानलक्षणमुक्तमस्माभिः ।।
स चायम्विकल्पो भावोपादानत्वेन निराचीकोषितो देशकालप्रतिनियतिमनपेक्ष्य विकल्पप्रतिबिंबविषयत्वादेव चात्मशब्दस्य न निर्विषयत्वमस्ति। ततश्च यदुक्तं यच्च यत्र प्रतिषिद्धयते तत् तस्मादन्यत्रास्ति। यथा नास्ति नासमानाधिकरणो घटशब्दो न घटाभावं प्रतिपादयितुं शक्नोति । अपि तु देशकालविशेषात् प्रतिषेधागति (:)। नास्ति घट इति देशविशेषे प्रतिषेधो गेहे नास्ति इति। कालविशेषे 46b वा प्रतिषेधः। इदानीं नास्ति। प्राग्नास्ति। ऊर्ध्व नास्ति। सर्वस्यायं प्रतिषेधो नाननुभूतघटसत्व'स्य युक्तः। तथा नास्त्यात्मेति किमयन्देशविशेषः प्रतिषिध्यते। ' उत्तरकालविशेष इति । यदि तावद्देशविशेषप्रतिषेधः। स आत्मनि न युक्तोऽदेशत्वादात्मनः। न च देशविशेषप्रतिषेधादात्मा प्रतिषिद्धो भवति। न चायम्भवतामभिप्रायः। शरीरमात्मा न भवतीति चेत् । कस्य वा शरीरमात्मा यं प्रति प्रतिषेधः। शरीरे नास्त्या त्मेत्येवं प्रतिषेध इति चेत् । कस्य शरीरे आत्मा यं प्रति प्रतिषेधः। क्व तर्यात्मा। न क्वचिदात्मा। किमयं नास्त्येव । न नास्ति विशेषप्रतिषेधात् । केयं वाचो युक्तिन शरीरे नान्यत्र । न च नास्ति। एषैवेषा वाचो युक्तिः। यद्यथा भूतन्तत्तथा निर्दिश्यत इति न चायमात्मा क्वचिदपीति । तस्मात्तथैव निर्देशः । न च कालविशेष प्रतिषेधो युक्तः। आत्मनि त्रैकाल्यस्यानभिव्यक्तरात्मप्रतिषेधञ्च कुर्वाणनात्मशब्दस्य विषयो वक्तव्यः। न हयेकं पदं निरर्थकं पश्यामः॥ अथापि शरी रादिषु आत्मशब्दं प्रतिपद्येथाः। एवमप्यनिवृत्तौ व्याघातः कथमिति । नास्त्यात्मेत्यस्य वाक्यस्य तदानीमयमर्थो भवति शरीरादयो न सन्तीति । एवमादि बह्वसंबद्धं तदपहस्तितम्भवति । प्रतिज्ञार्थंकदेश इत्येतदप्यसत् सामान्यविशेषस्याभावात्। यद्वा न प्रयत्नानन्तरीयकत्वस्य प्रतिज्ञार्थंकदेशता धर्मिणमुपलक्ष्य निवृत्तत्वात् (१) यस्य हि यदुपलक्षकं न तस्य तदेकदेशत्वं यथा न काकस्य गृद्धैकदेश- 50a त्वमिति॥