________________
१-निग्रहस्थानलक्षणम्
[२१ विधस्य सतः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धिः । अनुपलभ्यमानं त्वीदृशं नास्तीत्येतावन्मात्रनिमित्तोयमसद्वयवहारोऽन्यस्य तन्निमित्त
मुक्त्वा यदन्यदसद्वयवहारसाधनमनुपलब्धिमानं लिङगमुपादीयते । तदा तस्मिन्सति संशयो भवति नास्त्यसद्वयवहारनिश्चयः उपलब्धिनिवृत्तावप्यर्थाभावासिद्धेरिति समुदायार्थ (1) यदि वा ततो दृश्यानुपलम्भाल्लिङगात् सकाशादन्यथा सति लिङगे संशय इति व्याख्यातव्यं । तस्माच्छब्दस्तु पूर्वमध्या हर्त्तव्यं । अथवा तत उपलब्धिलक्षणप्राप्ताद न्यथा तद्विहीने संशये सति तल्लिङग I5b इति व्याख्येयं । का पुनरत्रानुपलब्धौ व्याप्तिरित्याह । अत्रापीत्यादि (2bII)। एवं विधमिति दृश्यं सदनुपलब्धं (1) सर्वग्रहणं सोपसंहारेण व्याप्तिप्रदर्शनार्थ॥
ननु यदि नाम कस्यचिद्विषाणादेः शशमस्तकादावुपलब्धिलक्षणप्राप्तानुपलब्धस्यासद्व्यवहारविषयता । अन्येनापि सामान्ये विशेष्येवयविद्रव्यसंयोगविभागादिना तथाविधेन तथा भवितव्यमिति कुतोऽयं नियम इत्यत आह । कस्यचिदि (2b1) त्यादि । कस्यचिदुपलब्धिलक्षणप्राप्तस्या नुपलब्धस्य शशविषाणादेरसतोऽसद्वयवहारविषयेस्त्यभ्युपगमेऽसद्वयवहारादिविषयोऽसन्नित्युक्तः । तल्लक्षणाविशेषादि (2b1)ति । तस्या सतो लक्षणं निमित्तं यथोक्तानुपलब्धिलक्षणशब्दश्च करणसाधनस्तस्याविशिष्टत्वात् सामान्यविशेषावयविद्रव्यादाविति वाक्यशेषः । एतदुक्तम्भवति शशविषाणादेरप्यसयवहारविष (य)त्वं कस्मादिष्यते। यथोक्तानुपलम्भस्य तन्निमित्तस्य सद्भावादिति चेत् । यद्येवं सामान्यविशेषता तस्यास्तीति कस्मात्तथा सद्वयवहारविषयत्वन्नाभ्युपगम्यते (1) अन्यथा तत्रापि तत्स्याच्चेत्। नहि पुरुषेच्छावशाद्धेतौ विषयप्रविभागो युक्त इति । नही (2b1)त्या दिनैतदेव व्यनक्ति। एवंविधस्य दृश्यस्य सत्त्वेऽनुपलब्धस्या सत्वानभ्युपगम (2b1) इति । असद्व्यवहारादिविषयत्वान्नाभ्युपगम इत्यर्थः असत्वशब्देना सद्व्यवहारो विनिश्चयस्तस्योपलक्षणम् । युक्तोपलम्भस्य तस्यैवा नुपलम्भनं प्रतिषेधहेतुरित्यादि चेत् । अन्यत्र शशशृङगाभावे दण्डेन पुरुषस्य (?) योगः स एव इत्यर्थः (1) नहयेवंविधस्य दृश्यस्य चक्षुरादिशून्येषूपलम्भकारणेषु 16a स अनुपलब्धिर्भवति ॥
किन्तर्हथुपलब्धिरेव भवतीति प्रतिषेधद्वयेनाह । अन्यस्योपलब्धिप्रत्ययस्य कस्यचिदपेक्षणीयस्याभावादिति भावः । तदनेन प्रकृतमेव स्पष्टयति । अनुपल'. भ्यमानं त्वीदशमित्युपलब्धिलक्षणप्राप्तन्नास्ति तस्मादेतावत्सात्र उपलब्धिलक्षणप्राप्तानुपलब्धिमात्रनिमित्तं यस्यासद्व्यवहारस्य स तथा ख्यातः तदनेनासत्'