SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जर्याम् अभावस्य प्रमाणान्तरत्वनिरूपणम् - आह अभावस्तहि प्रमाणान्तरमस्तु । सत्परिच्छेदकं यत्र न प्रमाणं प्रवर्तते । तदभावमितो मानं प्रमाणाभाव उच्यते ।। इह घटो नास्तीति घटं प्रति सदुपलम्भकप्रमाणप्रवृत्तिर्नास्तीति असौ प्र. माणाभावो घटाभावं परिच्छिनति, तत्र च घटविषयज्ञातृव्यापारानुत्पाद एव दृश्यादर्शनवाच्यः प्रमाणं, नास्तीति बुद्धिः फलम् ।। अथ वा घटाभावग्राही ग्रहीतृव्यापारः सदुपलम्भकप्रमाणाभावजनितो ना. स्तीति प्रत्ययस्वभावः प्रमाणं, फलं तु हानादिज्ञानं भविष्यति, तदुक्तम् प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनोऽपरिणामो वा विज्ञानं वा ऽन्यवस्तुनि ।। (१)इति । अन्यवस्तुशब्देन घटाभाव उक्तः, तत्र तावदिदं नास्तीति ज्ञानं न प्रत्यक्षजनितमिन्द्रियार्थसन्निकर्षाभावात् , सन्निकर्षों हि संयोगसमवायस्वभावः तत्प्र. भावभेदो वा संयुक्तसमवायादिरिह नास्त्येव संयुक्तविशेषणभावो ऽपि न सम्भवति कुम्भाभावस्य भूप्रदेशविशेषणत्वाभावात् , न ह्यसंयुक्तमसमवेतं वा किं चिद्विशेषणं भवति संयुक्तस्य दण्डादेः समवेतस्य शुक्लगुणादेस्तथाभावदर्शनाद्, अभावश्च न केन चित्संयुज्यते अद्रव्यभावात् , न क चित्स समवैति गुणादि. वैलक्षण्यादिति, यदि च संयुक्तविशेषणभावसन्निकर्षोंपकृतं चक्षुरभावं गृहाति तर्हि तदविशेषात्संयुक्तद्रव्यवतीन् रसादीनपि गृहीयात् तदभावमपि मा प्रहीदयोग्यत्वाविशेषात् , योग्यायोग्यत्वकृतग्रहणाग्रहणनियमवादे वा योग्यतैव स. निकर्षों भवति किंषट्कघोषणेन, तस्मान्न घटाभावज्ञानं चाक्षुषम् । ननु भूप्रदेशं च घटाभावं च विस्फारिते चक्षुषि निरीक्षामहे निमीलिते तु (१)श्ली. अभावग्रन्थे १० लो.। अभावोऽपि प्रमाणामाषा नास्तीत्यर्थ. स्यासनिकृष्टस्य इति भाष्यम् । तत्र 'प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुस. त्तावबोधार्थ तत्राभावप्रमाणाता' इत्यनेन प्रमाणपदं प्रत्यक्षादिप्रमाणपञ्चकपरमिति व्याख्याय अभावशब्द व्याचष्टे-प्रत्याक्षादेरिति । तां (प्रत्यक्षाचनुत्पत्ति) द्विधा वि. मजते सेति । सोऽयमात्मनो घटादिविषयः प्रत्यक्षादिज्ञानस्वरूपः परिणामः तदभाव. मात्रमेवानुत्पत्तिरभाव इति बोध्यते तच घटाद्यभावविषयं नास्ति बुद्धिजनकतया इ. न्द्रियादिवत्प्रमाणम् नास्तीतिबुद्धिश्चफलम् सेव या बुद्धिर्घटायभावरूपे वस्तुनि जाय माना लक्षणयानुत्पश्यभावशाब्दाभ्यामुच्यते तत्प्रमाणे चहानादिधीः फलम् , तदेवं भाष्यार्थः प्रत्यक्षाग्रभावो यो नास्तीत्यर्थस्य बाधकः सोऽभावो नाम प्रमाणम् इति भ्यायरखाकरः ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy