SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् सदिदमनुपपन्नम् , अफलजनकस्य प्रमाणत्वापत्तेरित्युक्तत्वात् , अपि च कर्मणि ज्ञानं प्रमाणमिष्यते, यथोक्तं सव्यापारमिवाभाति व्यापारेण स्वक. मणेति, स चायमर्थक्षणो ज्ञानसमकालस्ततः पूर्वाभ्यां ज्ञानार्थक्षणाभ्यामुपजनित इति तत्कर्मतां प्रतिपद्यतां न पुनःस्वसमानकालप्रसूतज्ञानक्षणकर्मतामिति । ____नमु च तुल्यसामग्रयधीनतया समानकालतया च लदव्यभिचारसिद्धो क कर्मस्वमुपयुज्यते, हन्त तर्हि सहोत्पन्नयोः समानसामग्रीकयोमा॑ह्य ग्राहकनियमः किंकृत इति कर्त्तव्यं ज्ञानं प्रकाशस्वभावमिति ग्राहकम, अर्थों जडात्मेति प्रा. घमिति चेदयमपि विशेषस्तुल्यकारणयोः कुतस्त्यः, उपादानसहकारिकारणभे पाविति चेन्न, तस्य क्षणभङ्गभङ्ग निराकारयिष्यमाणत्वात, ये हि निराकारस्य बोधरूपस्य नीलपीतापनेकविषयसाधारणत्वाज जनकत्वस्य च चक्षुरादावपि भावेनातिप्रसङ्गात्तदाकारकृतमेव ज्ञानकर्मनियममवगच्छन्तः सकारविज्ञान प्रमाणमिति प्रतिपेदिरे तेऽपि विज्ञानाद्वैतसिषाधः विषयैवमभिदधानास्तन्निरासप्रसङ्ग एव निरसिष्यन्ते, न ह्येकमेव साकारं ज्ञानं प्राचं ग्राहकं च भवितुमहतीति वक्ष्यते, अर्थस्तु साकारज्ञानवादिनो न सम. १५ स्त्येव, स ह्यनुमेयो वा स्यात्प्रत्यक्षो वा, नानुमेयः सम्बन्धग्रहणाभावात् । अथे हि सति साकारं निराकारं तदत्यपये। नित्यानुमेयबाद्यार्थवादी ज्ञानं क दृष्टवान् ॥ नापि प्रत्यक्षोऽर्थः, आकारद्वयप्रतीत्यभावात् , अभ्युपगमे चानवस्थाप्रसङ्गात्, अर्थोकारो हि निराकारज्ञानगम्यो न भवतीति ज्ञानेनाकारव. २० सा गृह्यते, सोऽयमिदानीं ज्ञानाकारोऽपि प्रायत्वादन्येनाकारवता गृह्यते सोऽप्यन्येनेति, अथ वा अर्थों निरकारज्ञानग्राह्यतां नोपयातीति स्वप्रा. हके ज्ञानात्मनि समर्पितात्मा भवतीति साकारं ज्ञानमेवेदं सम्पन्नमिति पुरों. ऽन्यः कल्पनीयः सोऽपि प्राह्यत्वात्स्वग्राहकस्य साकारत्वसिद्धये तत्रैव लीयते इतिः साकारं ज्ञानमेवावशिष्यते इति पुनरर्थोऽन्य इतीत्थमनवस्था, प्रतिक २५ मव्यवस्था(१) तु जनकत्वनिबन्धना भविष्यति वस्तुस्वभावस्यापर्यनुयोज्यत्वात् , साकारपक्षेऽपि पर्यनुयोगसाम्यमित्यादि सर्वमुपरिष्टात् सविस्तरमभिधा. स्यते, साकारपक्षेऽपि च न प्रमाणाद्वयतिरिक्तं फलमुपदर्शितमित्यसपक्ष एवायम् । मीमांसकमतम।। शाबरास्तु ब्रुवते य एते बोधपामाण्यवादिनो विज्ञानादभिन्नमेव फल (१) कस्यचित्पुंसः कदाचिदेव कश्चिदेव विषयो ज्ञानकर्म न सर्वस्य सर्वदा सर्व हति व्यवस्था प्रतिकर्मव्यवस्थापनोच्यते ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy