SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः। ४७३ नीचतुरङ्गया चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तया चतुरङ्गया वाहिन्या करणेन अहितानभि शत्रून्प्रति चचाल । कलभसमेत्युपमा यमकेन संसृज्यते ॥ अथ कलापकेन सेनां वर्णयति ततस्ततधनुरु-विस्फारस्फारनिःस्वनैः। तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ २६ ॥ ततस्ततेत्यादि ॥ ततश्चैद्यचलनानन्तरं ततानामाकृष्टानां धनुमौंर्वीणां विस्फारैः स्फाराः प्रभूता निःस्वना येषां तैस्तूयः युगक्षये कल्पान्ते क्षुभ्यन्तमुद्वेल्लन्तमकूपारं समुद्रमनुकरोतीति तदनुकारिणी सा सेनेत्युत्तरेणान्वयः । उपमा ॥ सर्वतोभद्रः॥ स का र ना ना र का स का य सा द द सा य का। . र सा ह वा वा ह सा र ना द वा द द वा द ना ॥२७॥ सकारेति ॥ पुनः कीदृशी । 'कारो वधे निश्चये च बले यत्ने रतावपि' इति विश्वः । सकाराः सयत्नाः सोत्साहाः नाना नानाविधाश्च ये आरा अरीणां समूहाः । 'भिक्षादिभ्योऽण् । तेषां कासा गतिभेदाः काया विग्रहाश्च तेषां सादं ददतीति साददाः नाशकारकाः सायका यस्यां सा तथोक्ता । रसेन रागेणाहवो यस्याः सा रसाहवा । रणरागिणीत्यर्थः । वाहसाराणां वाहश्रेष्ठानां ये नादा हेषादिघोषास्तेषां वादं कलहं ददतीति वाददानि तैः सह कलहायमानानि वादनानि वाद्यानि यस्याः सा वाहसारनादवाददवादना । तूर्यतुल्यवाहघोषेत्यर्थः । अत एव तेषां तुल्यतोक्तेरतिशयोक्तिः । सर्वतो भ्रमणात्सर्वतोभद्रायश्चित्रबन्धः । अत एव दण्डी-'तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुःषष्टिकोष्ठे चतुरङ्गबन्धे क्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्कं विलिख्यानन्तरं पतिचतुष्टयेऽप्यधःक्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु प्रथमपादः सर्वतो वाच्यते । एवं द्वितीयादिषु द्वितीय इत्यादि ॥ . लोलासिकालियकुला यमस्येव स्वसा स्वयम् । चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ २८॥ लोलेति ॥ लोलान्यसीनामेव कालियानां कृष्णसर्पविशेषाणां कुलानि यस्यां सा उल्लसद्भिर्लोहवर्मभिरयःक कैः श्यामा अत एव यमस्यान्तकस्य सहायतां भ्रातृस्नेहादस्मिन्सेनासंहारे साहाय्यं चिकीर्षुः स्वयं साक्षात्स्वसा तस्येव भगिनी यमुनैव स्थितेत्युत्प्रेक्षा ॥
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy