SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः। ४६९ कृत्वा शिनेः शाल्वचमं सप्रभावा चमूर्जिताम् । ससर्ज वक्रैः फुल्लाजसप्रभा वाचमूर्जिताम् ॥ ७॥ कृत्वेति ॥ प्रभावेण सह वर्तत इति सप्रभावा महानुभावा शिनेः सात्यकिपितामहस्य चमूः सेना। शाल्वो नाम चैद्यपक्षो राजा तस्य चमू सेनां जितां कृत्वा । जित्वेत्यर्थः । अत एव वर्मुखैः । 'येनाङ्गविकारः' इति तृतीया । विकासस्यापि विकारत्वात् । फुल्लाजस्य प्रफुल्लारविन्दस्य सप्रभा समानप्रभा । हर्षेण विकासितवत्रा सतीत्यर्थः । ऊर्जितामुदारां वाचं ससर्ज के यूयमसदन इत्याधुच्चैर्जगर्ज । जगादेत्यर्थः । उपमायमकयोः संसृष्टिः ॥ उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंचयम् । तेजःप्रकिरता दिक्षु सप्रतापमदीप्यत ॥ ८॥ उल्मुकेनेति ॥ दिक्षु तेजः प्रभावं प्रकाशं च प्रकिरता विक्षिपता उल्मुकेन भागवतेन राज्ञा, अलातेन च संकुचन्ती पत्रसंपद्वाहनसंपत्पर्णसमृद्धिश्च यस्य तम् । सप्रतापं सपराक्रम, प्रकटतापसंहितं च । दुमं द्रुमाख्यं राजानं, वृक्षं च प्राप्यादीप्यत प्रजज्वले । भावे लङ् । अत्राभिधायाः प्रकृतार्थे नियत्रणादप्रकृतार्थप्रतीतिर्ध्वनिरेव न श्लेषः ॥ पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः। तयैव वाचापगमं ययाचापमुदा युधः॥९॥ पृथोरिति ॥ रुक्मी भीष्मकात्मजो रुक्मिणीभ्राता उदायुध उद्यतायुधः सन् यया वाचा पृथो राज्ञश्चापमध्यक्षिपत् धिगिदं वृथा कष्टमिति निनिन्द । अपगता मुद्यस्यास्तयापमुदा निरुत्साहया तयैव वाचा युधो युद्धादपगममपसरणं ययाच । मां त्राहि पलायमानं शरणागतोऽस्मीति प्रार्थयामासेत्यर्थः । याचिरुभयपदी ॥ समं समन्ततो राज्ञामापतन्तीरनीकिनीः । काणिः प्रत्यग्रहीदेकः सरस्वानिव निम्नगाः ॥१०॥ सममिति ॥ समं युगपत्समन्तत आपतन्तीरागच्छन्ती राज्ञां चैद्यपक्षाणामनीकिनीः सेनाः । कृष्णस्यापत्यं पुमान्काणिः प्रद्युम्नः 'अत इञ्' । निम्नगा नदी सरस्वान्समुद्र इवैकोऽसहायः प्रत्यग्रहीत्प्रत्यवरुरोध ॥ दधानैर्घनसादृश्यं लसदायसदंशनैः। तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः॥ ११ ॥ दधानैरिति ॥ लसन्ति आयसान्ययोमयानि दंशनानि वर्माणि येषां तैः । "तनुत्रं वर्म दंशनम्' इत्यमरः । अत एव घनसादृश्यं कायान्मेघसाम्यं दधा. नैस्तैः सैनिकैः तत्र काष्णो काञ्चनसच्छाया सुवर्णवर्णा शर एवाशनिः विद्युत्स ४० शिशु
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy