SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधे केनचिदपरद्वारेण द्रुततरमपयात्यपसरति । तथा पूर्वद्वारेण निजपतावागते पश्चा मार्गेणोपपतिरपसरति तद्वदित्यर्थः । उपमालंकारः ॥ २८८ प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः । गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भावाने एकोऽधिशेते ॥ ६६ ॥ प्रलयमिति ॥ अखिलस्तारालोको लोक इव तारा नक्षत्रं तमखिलं तारालोकमह्नाय द्राक् प्रलयं क्षयं नीत्वा अत एव यतो नास्त्यनिशवं सानतिराया सर्वातिशायिनी श्रीमहिमा यस्य सोऽनतिशयश्रीः सानुरागामुइयरागवतीं श्रियं शोभामन्यत्र सानुरागामनुरागवतीं श्रियं रमां च दधान एव नास्वानेको मधुरिपुविष्णुरिव रात्रिः कल्पावसानं कल्पान्त इव तस्मिन्रात्रिकल्पावसाने गगनं सलिलराशिरिव तं गगनसलिलराशिमधिशेतेऽधितिष्ठति । अत्र मधुरिपुरिवेति वाक्यगतोपमैव समासगतोपमानां प्रसाधिकेति सर्वत्रोपमितसमासाश्रयणमेवोचितम् ॥ कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः क्षयितकुमुद तारकश्रीवियोगं नयन्कामिनः । बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती वरद करोतु सुप्रातमह्नामयं नायकः ।। ६७ ।। इति श्रीमाकृतौ शिशुपालवधे महाकाव्ये ध्य प्रत्यूषवर्णनो नामैकादशः सर्गः ॥ ११ ॥ कृतेति ॥ कृतसकलजगद्विबोधः कृताखिलजगत्मबोधः अवधूतो विक्षिप्तोsaकारस्योदय उज्जृम्भणं येन सोऽवधूतान्धकारोदय इति महागुणोक्तिः । दोष. माह- क्षयिता नाशिता कुमुदानां तारकाणां च श्रीर्येन सः कामिनः स्त्रीपुंसावियोगं नयन्प्रापर्यस्तथापि बहुतरगुणस्य पूर्वोक्त महागुणस्य दर्शनादभ्युपेतो लोकैरङ्गीकृतोऽल्पदोषः पूर्वोक्त एव यस्य सः । 'एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' इति न्यायादिति भावः । अत एव कृती कृताaisi नायकः प्रभुः सूर्यः हे वरद कामद, तव सुप्रातं सुप्रभातं करोतु । 'आशिषि लिङ्लोटो' इत्याशीरर्थे लोट् । शोभनं प्रातर्यस्येति सुप्रातः शोभनप्रातर्वानुच्यते 'सुप्रातसुश्व -' इत्यादिना बहुव्रीहावच्प्रत्ययान्तो निपातित: । अत्र भावप्रधानो निर्देशः । तव सुप्रातं सुप्रभातत्वं करोत्वित्यर्थः । महामालिनीवृत्तमेतत् । 'यदिह नयुगलं ततो वेदरेफैर्महामालिनी' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरि विरचिते शिशुपालवध - काव्यव्याख्याने सर्वकषाख्ये एकादशः सर्गः ॥ ११ ॥
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy