SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। २६९ दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छसद्भिः पलाशैः । कलरवमुपगीते षट्पदौन धत्तः कुमुदकमलपण्डे तुल्यरूपामवस्थाम् ॥ १५॥ दधदिति ॥ एकं कुमुदषण्डमानमद्भिर्मुकुलीभवद्भिः पलाशैर्दलैरसकलमधं खण्डिताम् । शीयमाणामित्यर्थः । श्रियं दधत् । अपरं कमलषण्डमुच्छसद्भिविकसद्भिः पलाशैरपूर्णी वर्धमानां श्रियं दधत् । षट्पदोघेन कलरवं यथा तथा उपगीते । उभे अपीत्यर्थः । कुमुदकमलपण्डे कुमुदानां कमलानां च षण्डे कदम्बे । 'कदम्बे पण्डमस्त्रियाम्' इत्यमरः । तुल्यरूपामवस्थां धत्तः दधाते । अत्र क्षयवृद्ध्योरर्थप्रवृत्तेरैकरूप्ये कस्य क्षयः कस्य वा वृद्धिरिति दुर्ग्रहमिति भावः । अत्रोभयविशेषणानां तुल्यावस्थाधारणहेतुकत्वात्काव्यलिङ्गम् । तेन दयोः क्रमेणोपमानोपमेयभावरूपोपमेयोपमा व्यज्यते ॥ मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् । वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः॥१६॥ मदेति ॥ संप्रति सितकरस्येन्दोरिदं करजालं कर्तृ उद्गच्छता उदयता अरुणेनानूरुणा मदरुचिं तत्तुल्यां रुचिम् । अरुणिमानमित्यर्थः । अत एव निदर्शनालंकारः । लम्भितस्य प्रापितस्य । लभेय॑न्तात्कर्मणि क्तः । 'लभेरशब्लिटोः' इति नुमागमः । अत एव चिराय स्थायिनी लजामाशु त्यजत इव । मुखप्रकाशनादियमुत्प्रेक्षा । वासवाशा प्राची तस्या एव युवत्या मुखस्य प्राग्भागस्याननस्य च वसनमिवावगुण्ठनपट इव वंसते गलति । रक्ताः स्त्रियः पाटलमुखा निलजाः स्रम्तवस्त्राश्च भवन्तीति भावः । अत्र मुखस्येति प्राग्भागवदनयोरभे. दाध्यवसायाच्छेपमूलातिशयोक्तिः तया पूर्वोक्तनिदर्शनोत्प्रेक्षाभ्यां चानुगृहीता वसनमिवेन्युत्प्रेक्षेति संकरः॥ अविरतरतलीलायासजातश्रमाणा मुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् । पुनरुषसि विविक्तैर्मातरिवावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥१७॥ अविरतेति ॥ अविरतरतलीलायासेनाविच्छिन्नसुरतक्रीडाप्रयासेन जातश्रमाणामङ्गनानां संबन्धिनि निःसहत इति निःसहेऽक्षमे । पचाद्यच् । अङ्गे उपशममुपयान्तं शाम्यन्तं मदन एवाग्निस्तं पुनरुषसि मातयन्तरिक्षे श्वयति वर्धत
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy