SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। २५३ तितः । महीयो महत्तरं धाम केलिगृहं कमलासखेन लक्ष्मीभा विष्वक्सेनेन जनार्दनेन विष्णुना सेवितस्याधिष्ठितस्य युगान्तपयोधेः साम्यमापेत्युपमालंकारः। युगान्तविशेषणं विविक्तताद्योतनार्थम् । एतेनेच्छाविहारतोक्ता ॥ अथ विश्रम्भविहाराण्येवाहआवृतान्यपि निरन्तरमुच्चैयोंपितामुरसिजद्वितयेन । रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि॥५६॥ आवृतानीति ॥ उच्चैरुन्नतेनोरसिजद्वितयेन निरन्तरं नीरन्ध्रमावृतानि संवृतान्यपि योषितां हृदयानि वक्षांसि, चेतांसि च इत इतो विमृशद्भिरितस्ततः परामृशद्भिः रागिणां पाणिभिर्जगृहिरे गृहीतानि । निगूढं वस्तु हस्तपरामर्शाल्लभ्यत इति एकत्र भावः, अन्यत्र कृच्छ्रलब्धः प्रियकरस्पर्शस्तासां हृदयग्राह्योऽभूदिति भावः । नैरन्तर्येण प्रतिबनतोरपि कुचयोः कथंचिदन्तरं संपाद्य हृदयानि स्पृष्टान्येवेति वाक्यार्थः । अत्र द्वितयानामपि हृदयानां प्रकृतत्वात्केवलप्रकृतश्लेषः॥ कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाप्रैः। अक्रियन्त कठिनेषु कथंचित्कामिनीकुचतटेषु पदानि ।। ५७॥ कामिनामिति ॥ स्वेदवारिणा सात्विकेनाङ्गुलीस्वेदेन मृदुभिः कोमलतां गतैरत एवं विभुग्नर्विनम्रः कामिनां करजाग्रैर्नखाग्रैः कठिनेषु कामिनीकुचतटेषु असकलान्यसमग्राणि पदानि क्षतानि कथंचिदक्रियन्त कृतानि । कठिनेषु मृदूनां पदलाभो दुःसंपाद्य इति भावः । नखक्रिया प्रवृत्तेत्यर्थः । अत्र कुचानामीटक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ सोप्मणः स्तनशिलाशिखराग्रादात्तधर्मसलिलैस्तरुणानाम् । उच्छसत्कमलचारुष हस्तैर्निम्ननाभिसरसीपु निपेते ॥ ५८ ॥ सोप्मण इति ॥ सोप्मणो यौवनोमयुक्तात्म्तनावेव शिलाशिखरे तयोरग्रादुपरिभागादात्तधर्मसलिलैरुष्णदेशविहारात्प्राप्तस्वेदैस्तरुणानां हस्तैरुच्छसत्कमलबहिकचकमलेश्च चारुपु निम्ननाभिष्वेव सरसीगु निपेते निपतितम् । ऊष्मस्त्रिनानां कुतश्चिदुन्नतात्पयसि पातो युक्त इति भावः । प्रथमं कुचौ स्पृष्ट्वा ततो नाभिदेशमस्पृशन्नित्यर्थः। अत्र कुचयोः शिलाशिखरत्वेन नाभीनां सरसीत्वेन च रूपणाद्धस्तानामापातिपुरुषत्वरूपणं गम्यत इत्येकदेशविवर्ति रूपकम् ॥ आमृशद्भिरभितो वलिवीचीझेलमानवितताङ्गलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः ॥ ५९ ॥ आमृशद्भिरिति ॥ वलयो वीचय इव वलिवीचीरभित आमृशद्भिः लोलमानाश्चलनशीलाः । 'ताच्छील्यवयोवचनशक्तिषु चानश' इति चानश्प्रत्ययः । न तु शानच् । लोलतेः परस्मैपदित्वात् । अत एव 'लोलमानादयश्वानशि' इति शिशु० २२
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy