SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९१ . अष्टमः सर्गः। सैकतं पुलिनम् । 'तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । 'सिकताशर्कराभ्यां च' इत्यण् प्रत्ययः । विगलितैर्विशीर्णेीरैश्चारुभिः स्वैः पल्यकैः शयनैः । ‘शयनं मञ्चपर्यङ्कपल्यङ्काः खट्या समाः' इत्यमरः । तुल्यं सदृशं परिवलयांचकार मेने । पूर्णोपमेयम् ॥ आघ्राय श्रमजमनिन्धगन्धबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् । आरण्याः सुमनस ईपिरे न भृङ्गै रौचित्यं गणयति को विशेषकामः ॥१०॥ आघायेति ॥ भृङ्गैः कर्तृभिः श्रमजमध्वश्रमोत्थम् । अनिन्द्यगन्धस्य श्ाध्यगन्धस्य बन्धुं सहचरम् । तद्वन्तमित्यर्थः । अङ्गनानां निश्वासश्वसनं निश्वासमारुतम् । असक्तमप्रतिषिद्धमाघ्राय अरण्ये भवा आरण्याः सुमनसः पुष्पाणि नेषिरे नेष्टाः । 'इषु इच्छायाम्' कर्मणि लिट् । अनुचितोऽयमकाण्डे परिचितपरित्याग इत्याह । विशेष कामयते इति विशेषकामः । 'शीलिकामिभिक्षाचरिभ्यो णः' इति णप्रत्ययः । क औचित्यं गणयति । न कोऽपीत्यर्थः । अर्थान्तरन्यासः ॥ आयान्त्यां निजयुवतौ वनात्सशङ्क वर्हाणामपरशिखण्डिनीं भरेण । आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥ ११॥ आयान्त्यामिति ॥ निजयुवतौ वनादायान्त्यामागच्छन्त्यां सत्यां सशङ्क सभयमपरशिखण्डिनी जारिणी बर्हाणां भरेण व्यवदधतं छादयन्तं मयूरं पुर आलोक्य कामिन्यः प्रियेप्वनार्जवं कौटिल्यं श्रदधुर्विश्वस्तवत्यः । कुटिलाः पुरुषा इति निश्चिक्युरित्यर्थः । दधातेलुंङि 'गातिस्था-' इत्यादिना सिचो लुक् । 'आतः' इति झेर्जुसादेशः । 'श्रदन्तरोरुपसर्गवद्वत्तिर्वक्तव्या' इति श्रच्छब्दस्य धातोः प्राक् प्रयोगः ॥ आलापैस्तुलितरवाणि माधवीनां माधुर्यादसलपतत्रिणां कुलानि । अन्तर्धामुपययुरुत्पलावलीषु । प्रादुःष्यात्क इव जितः पुरः परेण ॥ १२ ॥ आलापैरिति ॥ माधवीनां हरिवधूनामालापैः कर्तृभिः माधुर्याद्धेतोस्तुलितरवाणि तिरस्कृतरुतानि अमलपतत्रिणां हंसानां कुलानि उत्पलावलीप्वन्तर्धानम् । १ 'आयत्याम्' इति पाठः. २ 'मयूरमाराद्भामिन्यः' इति पाठः. ३ 'विजित' इत्रि पाठः. ४ 'वाणिनीनां' इति पाठः.
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy