SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। १८५ न लहन्त इति निःसहाः । पचाद्यजन्तेनोपसर्गस्य समासे त्वप्रत्ययः। कलभकराः करिहस्ता इवोरवो महान्तस्तैरूरुभिः सक्थिभिः। 'सक्थि क्लीवे पुमानूरुः' इत्यमरः ॥ अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः । कथमपि चरणोत्पलैश्चलद्भि{शविनिवेशवशात्परस्परस्य ॥ ६७ ॥ अपगतेति ॥ पुनश्चिराय चिरं क्षितिगमनेनापगतो नवयावको नवलाक्षारागो येषां तैः पुनस्तेनैव वितीर्णरागैः सौकुमार्यादुत्पादितरागैः परस्परस्य भृशविनिवेशवशास्थिरन्यासबलात् एकं स्थिरं निवेश्य तदवष्टम्भेन । इतरचालनकमेणेत्यर्थः । कथमपि महता प्रयत्नेन । 'कथमादि तथाप्यन्तं यत्नगौरवभेदयोः' इन्युत्पलः । चलद्भिश्चरणोत्पलैः ॥ मुहुरिति बनविभ्रमाभिपङ्गादतमि तदा नितरां नितम्बिनीभिः । मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासमाजः ६८ मुहरिति ॥ नितम्बिनीभिरुक्तधर्मोपलक्षिताभिः स्त्रीभिर्मुहुरित्येवं वनविनमाभिषङ्गानभ्रमणासङ्गात्तदा नितरामतमि तान्तम् । तमेय॑न्ताद्भावे लुङ् 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' इति वृद्धिप्रतिषेधः । युक्तं चैतदित्याहमृदुतरतनवोऽतिकोमलाङ्गयस्ताः स्त्रियः प्रकृया अलसा जडाः, अथ चिरमपि प्रयासमाजश्चेकिमुत । सुतरामलसाः स्युरित्यर्थः । अत्राप्रकृतनैसर्गिकालस्य कथनेनागन्तुकस्य कैमुत्यन्यायतः सिद्धत्ववर्णनादर्थापत्तिरलंकारः । 'एकस्य वस्तुनो नावाद्यत्र वस्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति लक्षणात् । श्रमश्चात्र संचारी वाच्यः । 'श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन्मदेनादयः' इति लक्षणात ॥ अथ श्रमानुभावं स्वेदं वर्णयतिप्रथममलघुमौक्तिकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु । कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम् ॥६९॥ प्रथममिति ॥ अथ तासां स्त्रीणां श्रमजलं प्रथममुज्वलगण्डमण्डलेपूजवलडस्थलेषु अलघुमौक्तिकाभं स्थूलमुक्ताफलसदृशमासीत् । पश्चात्कठिनतरकुचानपाति सत् अथ पतनानन्तरं शतं शर्कराः शतशर्करम् । 'समाहारे द्विगुरेकवचनं वा टाबन्ते' इति नपुंसकत्वम् । तस्य भावस्तत्ता तां शतशर्करतां शतशकलत्वं जगाम । अत्रैकस्य श्रमजलस्य क्रमेणानेकाश्रयसंबन्धनिबन्धनात्पर्यायालंकारभेदः । 'कमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथवानेकं पर्यायालंकृतिर्मता ॥' इति लक्षणात् ॥ अमेऽपि कुचमण्डलमविकृतशोभमित्याहविपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे । परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेवकामिनी नाम् ७० विपुलकमिति ॥ यौवनोद्धतानां कामिनीनां कुचयुगं विपुलकं पुलकरहित
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy