SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। १२७ यस्य तमभिमुखापतितमभिमुखमागतमात्मानमेव । आत्मप्रतिबिम्बमेयेत्यर्थः । निरीक्ष्यान्यनागेन प्रतिगजेनाभियुक्तोऽभिद्रुत इवातितूर्णमपभीनिर्भीकः सन् क्रोधादधावत् । अहो इति मौढ्येन विस्मयः । तच्च युक्तं महेभस्येति भावः । अभियुक्त इवेत्युत्प्रेक्षायाः प्रतिगजभ्रान्तिनिबन्धनत्वाभान्तिमदुत्प्रेक्षयोरङ्गाङ्गिभावेन संकरः॥ नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः । रुद्धे गजेन सरितः सरुषावतारे । रिक्तोदपात्रकरमास्त चिरं जनौषः ॥ ३३ ॥ नेति ॥ अन्यकरिणा प्रतिगजेन मुक्तेन मदाम्बुना तिक्तं सुरभि । 'कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः' इति केशवः । अम्भ आदातुं ग्रहीतुं नेच्छता विहातुं त्यक्तुमपि नेच्छता अनिच्छता । क्रोधपिपासाभ्यामिति भावः । धूताङ्कुशेन सरुषा सक्रोधेन गजेन सरितोऽवतारे तीर्थे रुद्धे सति जनौघः रिक्तान्युदपात्राणि येषु ते करा यस्मिंस्तद्यथा तथा चिरमास्त अतिष्ठत् । 'आस उपवेशने' लङ् । 'एकहलादौ पूरयितव्येऽन्यतरस्याम्' इत्युदकशब्दस्योदादेशः ॥ पन्थानमाशु विजहीहि पुरः स्तनौ ते __ पश्यन्प्रतिद्विरदकुम्भविशकिचेताः। स्तम्बरमः परिणिनंसुरसावुपैति पिझैरगद्यत ससंभ्रममेव काचित् ॥ ३४ ॥ पन्थानमिति ॥ पन्थानमाशु विजहीहि । 'ओहाक् त्यागे' लोटि सेादेशः। 'आ च हौ' इति विकल्पादीकारादेशः । पुरोऽये ते स्तनौ पश्यन्प्रतिद्विरदस्य कुम्भौ विशङ्कत इति तद्विशङ्कि चेतो यस्य सः । कुम्भभ्रान्तिमानित्यर्थः । अत एव भ्रान्तिमदलंकारः । स्तम्बे तृणे रमत इति स्तम्बेरमः । 'इभः स्तम्बेरमः पद्मी' इत्यमरः । 'स्तम्बकर्णयोरमिजपोः' इत्यच् प्रत्ययः । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । परिणन्तुं तिर्यक्ग्रहर्तुमिच्छुः परिणिनंसुः । नमेः सन्नन्तादुप्रत्ययः । 'एकाच उपदेशेऽनुदात्तात्' इतीट् प्रतिषेधः । असावुपैति । पुरेति पाठे पुरोपैतीत्यन्वयः । उपैष्यतीत्यर्थः । यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । षि विटैः । 'षिङ्गः पाल्लविको विटः' इति कोशः । काचिदेवमुक्तरीत्या ससंभ्रम ससत्वरमगद्यत गदिता ॥ कीर्णं शनैरनुकपोलमनेकपानां हस्तैर्विगाढमदतापरुजः शमाय । आकर्णमुल्लसितमम्बु विकासिकाशनीकाशमाप समतां सितचामरस्य ॥ ३५ ॥
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy