SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधे छायामिति ॥ जनानां समूहा जनता: । ' ग्रामजनबन्धुसहायेभ्यस्तल्' । तरूणां वर्तमानां विद्यमानां महतीमपि छायामपास्य त्यक्त्वा आगामिनीं छायां जगृहिरे | वर्धिष्णुत्वादिति भावः । न च प्राप्तत्यागो दोषाय । त्यागस्वीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्व इति । तथा हि-सर्वो जन उपगतं प्राप्त - मप्यपचीयमानं क्षीयमाणम् । कर्मकर्तरि प्रयोगः । आश्रयं नोपैति न गृह्णाति, किंत्वनागतमप्राप्तमपि वर्धिष्णुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ १२० अग्रे गतेन वसतिं परिगृह्य रम्यामापात्यसैनिकनिराकरणाकुलेन । यान्तोऽन्यतः प्लुतकृतखरमाशु दूरादुद्धाहुना जुहुविरे मुहुरात्मवयः ॥ १५ ॥ अग्र इति ॥ अग्रे गतेन पुरः प्रयातेन रम्यां वसतिं निवासम् । 'वहिवस्यर्तिभ्यश्च' इति वसेरौणादिकोऽतिप्रत्ययः । परिगृह्यापतन्तीत्यापात्याः स्वयमाक्रमितुमागच्छन्तः । ' भव्यगेय-' इत्यादिना कर्तरि ण्यदन्तो निपातः । तेषां सैनिकानां निराकरणे निरसने आकुलेन व्यग्रेण उद्वाहुनोद्यतहस्तेन । केनचिदिति शेषः । अन्यतो यान्तो गच्छन्त आत्मवर्ग्यः स्वयूथ्याः । लुतं त्रिमात्रिकं यथा तथा कृतः स्वरो नाद आह्वानं यस्मिन्कर्मणि तद्यथा तथा । 'दूराद्धूते च' इति दूरादाह्वाने विधानादिति भावः । आशु दूरान्मुहुराजुहुविरे आहूताः । ह्वयतेराङ्गपूर्वात्कर्मणि लिट् 'अभ्यस्तस्य च' इति संप्रसारणे द्विर्वचनमुवङादेशश्च ॥ सिक्ता इवामृतरसेन मुहुर्जवानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् । शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ १६ ॥ सिक्ता इति ॥ अमृतरसेन सिक्ता इवेत्युत्प्रेक्षा । मुहुर्जनानां क्लान्तिच्छिदः श्रमहराः। कल्पद्रुमवदमृतसेकाभावादपि तद्वदाह्लादका इति भावः । शाखास्ववसक्तैर्लग्नैर्वलग्नैराभरणैश्चाभिरामाः । एकत्र सेनास्थापितैरन्यत्र स्वप्रसूतैरिति भावः । वनवनस्पतयो वनवृक्षा विचित्रफलैर्वखाभरणाद्यनेकफलयुक्तैः कल्पद्रुमैः । तत्रत्यैरिति शेषः । सह तदानीं विरेजुः । तद्वद्विरेजुरित्यर्थः । सहेति सादृइये । 'सह साकल्यसादृश्ययौगपद्यसमृद्धिषु' इति विश्वः । तथा चोपमालंकारः ॥ यानाञ्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौ विदल्लाः ।
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy