SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 31 आलम्बनपरीक्षाव्याख्या सञ्चिताकारमिच्छन्ति केचन'' इति । परमाणुषु प्रत्येकं सञ्चिताकारोऽस्ति । स एव स्थूलविषयः परमाणूनां तरतमभावमनुसृत्य साकारः प्रतिभासते । स च वस्तुसन् । परमाणोः सञ्चिताकारः स्वाकारविज्ञानजनकः द्रव्यत्वात् आलम्बनं स्यात् । अस्य तु उभयाङ्गवत्त्वात् । स च पूर्व सिद्ध एव । कुतो वि कल्प्यते किं सञ्चिताकारः परमाणुरेव किं वा न तथा इति । सर्वोऽर्थो बह्वाकार इति । त एवाणवोऽण्वाकाराः सञ्चिताकाराश्च स्वीकृताः । कथमेकं वस्तु द्वयाकारं न्याय्यम् । बह्वाकाराः सर्वभावाः रूपसमुदायरूपाः पृथिव्यादिचतुर्महाभूतात्मकाः । ते स्वभावतो विशिष्टशक्तियुक्ताः । नीलवर्णाद्याकारः द्रव्यवर्ती इन्द्रियवर्ती च विभिन्नः प्रतीतः । सोऽपि बह्वाकारेषु परमाणौ अस्ति सञ्चिताकारः । अस्यैवाकारस्य चक्षुरादिविज्ञानगोचरत्वात् प्रत्यक्षत्वम् । यद्येवम् । अणूनां विज्ञानं सञ्चिताकारकमिति किं नाह । अणुः सञ्चिताकारः । किं नाह विज्ञानं सञ्चिताकारमिति । केन पुनराह ____ परमाणुष्वस्ति सञ्चिताकार इति । 40 Lit. वदन्ति 41 Kar. 3, a.b. 4' Lit. अभावगत्या or अभावविधया पृलयते । 4. Lit. अणौ
SR No.002350
Book TitleAlamban Pariksha
Original Sutra AuthorN/A
AuthorDinnaga, Dharmapala, N Aiyaswami Shastri
PublisherAdyar Library
Publication Year1942
Total Pages142
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy