SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आलम्बनपरीक्षा 80 विषयविज्ञानमनुसृत्य स एव जनकः स एवालम्बनम् । केचिदाहुः । सर्वोऽर्थश्चित्तचैत्तानां कारणं इत्यवश्यं युज्यते । एत एवोत्पद्य यथाविषयग्रहं शब्देन व्यवहीयन्ते । ' अनादिकालमिमे आलम्बन विषया आख्यायन्ते । यदीदं द्विविधलक्षणं, तद्भागयुक्तमालम्बनं भवति । जमकतायां सत्यामालम्बनार्थः । आगमे उक्तं । अस्मिन् सति इदं भवति इति प्रतीत्यसमुत्पन्नताया अभिधानम् । इति । 28 तद्विज्ञानोत्पत्तिकारणमुत्पत्तिप्रत्यय इति अयं तदालम्बनार्थः सम्मतः । स्वलक्षणमुपलभ्यते । नात्राधिकमस्ति इत्यतस्तन्नोच्यते । 3 संघातो नोत्पादकः, " द्रव्याभावात् । इति । स संघातो न द्रव्यम् । तस्य संघातिन एकत्वान्यत्वाभ्यामनिर्वचनीयत्वात् । न चाद्रव्यभूतस्य " उत्पत्तिक्रियाशक्तिः संभवति । 33 द्विचन्द्रवत्" । इति । यथा द्वितीयश्चन्द्रः न द्वितीयचन्द्र विज्ञानस्योत्पादकः । किं तर्हि तदाकारप्रतिभासकारणम् । इन्द्रियवैकल्यात् । इति । यदा चक्षुरिन्द्रियं तिमिराद्युपहतप्रकाशकम् । तदा इन्द्रियवैकल्यात् द्विचन्द्रदृष्टिभर्वति नतु वस्तुत्वेन । 30 Lit. अनेककाल ० 31 More lit. यद्यर्थः द्विविधलक्षणसंपन्नः तदा तद्भागयोग आलम्बनं नाम भवति. 32 Kar. 2. b. 33 Lit. उत्पत्तिफलकक्रिया •
SR No.002350
Book TitleAlamban Pariksha
Original Sutra AuthorN/A
AuthorDinnaga, Dharmapala, N Aiyaswami Shastri
PublisherAdyar Library
Publication Year1942
Total Pages142
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy