SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अष्टमाह्निकम् शरीरसामान्यलक्षणम् आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात् तदनुक्रमेण तत्स्वरूपनिरूपणार्थमाह चेष्टेन्द्रियार्थाश्रयः शरीरम् । शरीरस्य यल्लक्षणं येन च रूपेण भाव्यमानस्यापवर्गोपयोगिता 5 तदुभयमपि प्रतिपाद्यते । तत्र शरीरत्वमेव तावत् प्रथमं शरीरस्य लक्षणं तेन हि समानासमानजातीयेभ्यस्तद् व्यवच्छिद्यते, तस्मिन् सत्यपि चेष्टेन्द्रियार्थाश्रयत्वं यदस्य लक्षणमुच्यते तत् तेन रूपेणात्मनो भोगायतनं शरीरमिति ज्ञापयितुम् । चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मनो भोगायतनं भवति । मुमुक्षुणा च सुखदुःखोपभोगरहितात्मतत्त्वस्वभावनिःश्रेयसाधिगमविनिहित- 10 मनसा तथा भोगाधिष्ठानतया शरीरं भावयता तत्परिहरणे यत्नः कार्य इत्याचार्यश्चेष्टेन्द्रियार्थाश्रयत्वमस्य लक्षणमुक्तवान् । शरीरस्य चेष्टाश्रयत्वे शङ्कासमाधाने ननु चेष्टा क्रिया, क्रियाश्रयत्वे च सत्यपि न वृक्षादीनां शरीरत्वमित्यतिव्यापकं लक्षणम् ? न । विशिष्टचेष्टाश्रयत्वस्य विशिष्टप्रमेयलक्षणप्रक्रम- 15 तोऽवसीयमानत्वात्, हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणं शरीरमुच्यते न चेष्टामात्रस्याधिष्ठानम् । रथादिनापि नातिव्याप्तिर्यथोक्तप्रक्रमवशादेवान्येन प्रेरणायामसत्यामिति विशेषलाभात् । आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादानपरित्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः । ननु पाषाणा विशिष्टप्रमेयप्रक्रम इति । चेष्टामात्राश्रयत्वं वृक्षादीनामप्यस्ति । न च तेषां 20 लक्षणमिह प्रस्तुतम्, मुमुक्षोस्तत्परिज्ञाने प्रयोजनाभावात् । आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षेति । रथादि हि प्रयत्नातिरिक्तेन शरीरादिना प्रेर्यते, इदन्तु आत्मप्रयत्नेनैव । न्या० म० ३४
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy