SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ यममुखं याम प्रविशाम, 'वयम्' इति शेषः। 'या प्रापणे' [सार.अ.पर.पृ. २७१]; [पाणि. धातु. ११२५] आशी:प्रेरणयोरामपि 'याम' इति रूपम् ॥ गतप्रत्यागतजातिः ॥ ५६॥ . उष्ट्रः पृच्छति किं चकार मदृते कस्मिन् शमीवृक्षकः ?, कीदृक् सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाऽहं ब्रुवे?। यूनः प्राह सरोजचारुनयना सम्भोगभङ्गिक्रमे, प्रारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु?॥ ५७॥ ॥हेमयाननंदवनेचलोलमक। गतागतः॥ व्याख्या:- उष्ट्रः क्रमेलकः पृच्छति- मदृते मां विना, ऋते शब्दयोगे 'मत्' इत्यत्राऽस्मच्छब्दस्य पञ्चम्येकवचनं ह्रस्वः, शमीवृक्षः शमीवृक्षकः कस्मिन् किं चकार? अत्रोत्तरम्- हे मय ! उष्ट्र! आननन्द समृद्धिं गतवान् वने कानने। तथाऽहं दुःखी सन् ब्रुवे- 'स्वभक्ष्यविरहे अधिकम् अत्यर्थं कीदृक्?' इति प्रश्ने उत्तरम्- चल: चञ्चलः अलम् अत्यर्थम्, न विद्यते कं-सुखं यस्याऽसौ अकः, तस्य सम्बोधनम् हे अक! . पक्षे, सरोजचारुनयना यूनः प्रति प्राह- हे तरुणाः! यूयं सम्भोगभङ्गिक्रमेऽधरचुम्बने प्रारब्धे मम मुखं कि कुरुध्वे ? ततः तरुणाः प्राहुः- हे कमललोचने! सरोजाक्षि! तव वदनं मुखं नयामहे, 'तव वदनेऽधरचुम्बनं कुर्महे' इति भावः॥ गतप्रत्यागतजातिः॥ ५७॥ चक्री चक्रं व धत्ते ? क सजति कुलटा? प्रीतिरोतोः क? कस्मै, कूपः खन्येत? राज्ञां क च नयनिपुणैर्नेत्रकृत्यं निरुक्तम् ?। कन्दर्पापत्यमूचे रणशिरसि रुषा ताम्रवर्णः क्व कर्णशक्षुश्चिक्षेप? विष्णुर्वदति वसु पुरः स्तेन! किं त्वं करोषि ?॥५८॥ १. ४४ 'गतप्रत्यागतजातिः' इति न.३। कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy