SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ तस्मात् प्रलयपवनवेगप्रेरणात् कीदृशेऽब्धौ सततं तस्मिन् समुद्रेऽधिवासो यस्य सः, तं सतततदधिवासं व्यूढं कम् ऐक्षन्त जना ददृशुः ? उत्तरम्— बह्वयश्च - प्रचुराः ताः लहरयश्च ताः, तासु तरन्तः शकुलाःजीवविशेषाः चलन्तश्च शङ्खा यत्राऽब्धौ स तथा, तस्मिन् बहुलहरितरच्छकुलचलच्छङ्खे मकरं जलचरविशेषमपश्यन् ॥ भाषाचित्रजातिः १ ॥ १५६॥ को धर्मः स्तृतिवादिनां ? दधति के द्विः सप्तसङ्ख्यामिह ?, प्रार्थ्यन्ते च जनेन के भवभवा: ? पुंसां श्रियः कीदृश: ? । को वाऽभ्रङ्कषकोटयः शिखरिणां रेजुस्तथा कांश्चन, श्रीरस्मानजनिष्ट नाङ्गजमिति प्रोक्तान् वदेत् किं स्मरः ? ॥ १५७ ॥ ॥ मामसूतसानवः ॥ मञ्जरीसनाथजातिभेदः ॥ स्मृतिवादिनां को धर्म: ? मनो ऋषेरयं मानवः, व्याख्याः अणि प्रत्यये रूपम् । द्विः सप्तसङ्ख्यां चतुर्दशसङ्ख्यां के दधति ? मनवः । मनुशब्देन चतुर्दशाऽभिधीयन्ते । तथाहि - 'स्वायम्भव' - स्वरोविष' - उत्तम' - तामस चाक्षुष' - रैवत' - वैवस्वत'- सूर्यसावर्ण'- ब्रह्मसावर्ण' - रुद्रसावर्ण१० - धर्मसावर्ण११दक्षसावर्ण१२–रौच्य१३–भौव्य १४ – नामानो मनव ऋषयश्चतुर्दश । ' [ J जनेन के प्रार्थ्यन्ते ? सूनवः पुत्रा भवभवाः संसारोत्पन्नाः । पुंसां श्रियः कीदृशः कीदृक्षाः ? तनवः तुच्छाः । शिखरिणां गिरीणाम् अभ्रङ्कषकोटयः उच्चैस्तराग्रभागाः के रेजुः ? सानवः प्रस्थाः । 'श्रीः लक्ष्मीः अस्मान् अजनिष्ट अजीजनत्, न अङ्गजं कामम्' १. २. २ भाषाचित्रजाति:' इति न ३ । 'कीदृशः' इति न २ । प्रश्नोत्तरैकषष्टिशतकाव्यम् ११५
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy