SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ दम्पत्योः का कीदृक् ? के कं भेजुरिति सुनृपते ! ब्रूहि । मुक्ताः कयाऽऽद्रियन्ते ? वदत्यपाच्यश्च मदनध्रुक् कीदृक् ? ॥ १३२ ॥ ॥ माया न मदनदा, दानदमनया मा, हारदामकाम्यया, याम्य! कामदारहा ॥ मन्थानजातिः ॥ व्याख्या:- दम्पत्योः भर्तुभार्ययोः का कीदृक् ? माया निकृति: न मदनदा न कामदा । 'हे सुनृपते ! के कं भेजुः ?' इति त्वं ब्रूहि । ततो नृपः प्राहः - दानदमनया मा । दानञ्च दमश्च नयश्च दानदमनयाः कर्त्तारो मा-मां कर्मतापन्नं श्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः । मुक्ताः मौक्तिकानि कयाऽऽद्रियन्ते ? उत्तरम् - हारदामकाम्यया हारयष्टिवाञ्छया, मौक्तिकहाराभिलाषेण मुक्ताफलान्याद्रियन्त इत्यर्थः । अपाच्यः दाक्षिणात्यो वदति - मदनधुक् कामरिपुः कीदृक् ? उत्तरम् — यमस्येयं यामी, तस्यां भवः, तत आगतः वा याम्यः, तत्सम्बोधनम्- हे याम्य! दाक्षिणात्य ! कामस्य दारां- मन्मथभार्यां हन्तीति कामदारहा । अत्र गीतिच्छन्दः ॥ मन्थानजातिः १ ॥ १३२ ॥ मा या न १. ९६ हा र दा 'मन्थानजाति:' इति न ३ । म का म्य या ते कीदृशाः क्व कृतिनो ? व्यञ्जनमाह रिपवोऽनमन् कस्मै ? । कां पातीन्द्रः ? पट्टो ब्रवीति कीदृक् क्व भूः प्रायः ? ॥ १३३ ॥ ॥ ये रता जिनमते ॥ तेमन ! जितारये ॥ लेखराजिमासन ॥ नसमाजिराखले ॥ मन्थानजातिः ॥ दन दा कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy