SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ येन विराजितमिदमतिपुण्यम् , तच्चिन्तय चेतननैपुण्यम् । विशदागममधिगम्य निपानम् , विरचय शान्तसुघारसपानम् , भाव०॥८॥ इति श्रीशान्तसुघारसगेयकाव्ये अशौचभावनाविभावनो नाम षष्ठः प्रकाशः ( भुजङ्गप्रयातं वृत्तम् ) यथा सर्वतो निर्झरैरापतद्भिः, प्रपूर्येत सद्यः पयोभिस्तटाकः । तथैवाश्रवैः कर्मभिः सम्भृतोऽङ्गी, भवेद्व्याकुलश्चश्चलः पङ्किलश्च ।।१।। ... ( शार्दूलविक्रीडितं वृत्तम् ) यावत्किञ्चिदिवानुभूय तरसा कर्मेह निर्जीयते तावच्चाश्रवशत्रवोऽनुसमयं सिञ्चन्ति भूयोऽपि तत् । हा कष्टं कथमाश्रवप्रतिभटाः शक्या निरोधं मया संसारादतिभीषणान्मम हहा मुक्तिः कथं भाविनी ॥२॥ (प्रहर्षणीवृत्तम् ) मिथ्यात्वाविरतिकषाययोगसंज्ञाश्चत्वार. सुकृतिभिराश्रवाः प्रदिष्टाः । कर्माणि प्रतिसमयं स्फुटैरमीभिर्बध्नन्तो भ्रमवशतो भ्रमन्ति जीवाः ३ ( रथोद्धतावृत्तम् ) इन्द्रियावतकषाययोगजाः, पञ्च पञ्च चतुरन्वितात्रयः । पञ्चविंशतिरसत्क्रिया इति, नेत्रवेदपरिसङ्ख्ययाऽप्यमी ॥ ४ ॥ (इन्द्रवज्रावृत्तम् ) इत्याश्रवाणामधिगम्य तत्त्वम् , निश्चित्य सत्त्वं श्रुतिसन्निधानात् । एषां निरोधे विगलद्विरोधे सर्वात्मना द्राग यतितव्यमात्मन् ॥५॥
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy