SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ : ( शार्दूलविक्रीडितम् ) ये षट्खण्डमहीमही नतरसा निर्जित्य बभ्राजिरे, ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुराः । तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना इठादत्राणाः शरणाय हा दशदिशः प्रैक्षन्त दीनाननाः ॥ १ ॥ ( स्वागतावृत्तम् ) तावदेव मदविभ्रममाली, तावदेव गुणगौरवशाली । यावदक्षमकृतान्त कटाक्षै-नैक्षितो विशरणो नरकीटः ॥ २ ॥ ( शिखरिणीवृत्तम् ) प्रताप व्र्व्यापन्नं गलितमथ तेजोभिरुदितैर्गतं धैर्योद्योगैः श्लथितमथ पुष्टेन वपुषा । प्रवृत्तं तद्द्रव्यग्रहणविषये बान्धवजनैजने कीनाशेन प्रसभमुपनीते निजवशम् ॥ ३॥ 5 द्वितीयभावनाष्टकम् । मारुणीरागेण गीयते 5 स्वजनजनो बहुधा हितकामम्, प्रीतिरसैरभिरामम् । मरणदशावशमुपगतवन्तम्, रक्षति कोऽपि न सन्तम् ॥ १ ॥ विनय विधीयतां रे श्रीजिनधर्मः शरणम् । i ' अनुसन्धीयतां रे शुचितरचरणस्मरणम् विन० ॥ २ ॥ ध्रुवपदम् ॥ तुरगरथेभनरावृतिकलितम् दधतं बलमस्खलितम्, " हरति यमो नरपतिमपि दीनम्, मैनिक इव लघुमीनम् विन० ॥३॥ , प्रविशति वज्रमये यदि सदने, तृणमथ घटयति वदने । तदपि न मुञ्चति इतसमवर्ती, निर्दयपौरूषनर्ती, विन० ॥ ४ ॥
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy