SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्याद्वादबोधिनी-४० धर्मधर्मभ्यां भिन्नः समवायसम्बन्धः प्रत्यक्षज्ञानविरुद्धः । अन्यच्च वैशेषिकाः समवायमेकं नित्यं सर्वव्यापकञ्च स्वीकुर्वन्ति । एवं सति एकस्मात् पदार्थादपगते समवायेसर्वेभ्यः पदार्थेभ्यस्तस्य अपाय: स्यात् । अर्थात्-सर्वेषु पदार्थेषु स्थितः समवायो विनश्येत । यतो हि एकः सर्वव्यापकश्चेति । वैशेषिकाः 'एतेषु तन्तुषु पटः शाखायां वृक्षः' इत्यादिभिः समवायसम्बन्धः परिचिन्वति । किन्तु पटे पटत्वं समवायेन स्वीकुर्वन्ति । तन्न युक्तियुक्तम् । यदि ते सर्वत्र समवायं स्वीकुर्वन्ति तदा समवायेऽपि समवायान्तरं कथं नैव स्वीकुर्वन्ति ? अनवस्थादोषभयात् । यदि वैशेषिकाः पृथिवीत्वात् पृथिवीत्यादौ पृथिव्यां पृथिवीत्वं मुख्यसमवाय-सम्बन्धेन, तथा समवायस्यैकत्वात् समवाये समवायत्वं गौणसमवायेन मत्वा मुख्य-गौरणभेदेन समवायसम्बन्धमङ्गीकुर्वन्ति चेत् तदापि कल्पनामात्रम् । न चेदं व्यावहारिकं तात्त्विकं वेति ।। ७ ॥ चैतन्य तथा रूप आदि धर्म, आत्मा तथा घट इत्यादि धर्मियों से सर्वथा भिन्न है। तथा धर्म-धर्मी का सम्बन्ध समवाय सम्बन्ध से होता है। इस प्रकार की वैशेषिकदर्शन की मान्यता को सदोष प्रतिपादित करते हुए पूज्य कलिकालसर्वज्ञ प्राचार्य महाराजश्री कहते हैं कि'न धर्ममित्वमिति'।
SR No.002335
Book TitleSyadwad Bodhini
Original Sutra AuthorN/A
AuthorJinottamvijay Gani
PublisherSushil Sahitya Prakashan Samiti
Publication Year1997
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy