SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ स्याद्वादबोधिनी-२०४ [ ३२ ] सम्प्रति कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्योऽन्ययोगव्यवच्छेदमुपसंहरन्नाहॐ मूलश्लोकः इदं तत्त्वातत्त्व व्यतिकरकरालेऽन्धतमसे , जगन्मायाकारैरिव हतपरहीं विनिहितम् । तदुद्धत्तुं शक्तो नियतमविसंवादिवचनः , त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥ * अन्वयः-हतपरैः, मायाकारैः इव, हा, इदम्, जगत्, तत्त्वातत्त्वव्यतिकरकराले, अन्धतमसे विनिहितम् । नियतम्, अविसंवादिवचनः, त्वम्, एव, तत्, उद्वर्तुम्, शक्तः । अतः त्वयि, कृतसपर्याः, कृतधियः (सन्ति) । + स्याद्वादबोधिनी-इदमिति । इदं प्रत्यक्षं दृश्यमानं जगत्-इदमस्तु सन्निकटे प्रयोगः । तत्त्वं च अतत्त्वं चेति तत्त्वातत्त्वे तयोर्व्यतिकरो व्यामिश्रणं तेन करालेअतिभयावहे, अतिशयेन अन्धं तमः इति अन्धतमः तस्मिन्अन्धतमसे प्रगाढान्धकारे। मायामिन्द्रजालं कुर्वन्तीति मायाकारास्तैर्मायाकारैः परवञ्चननिपुणैः हननं हतम्भावे क्तः-परमर्महननकुशलैः परैः वेदान्तादिदार्शनिकैः,
SR No.002335
Book TitleSyadwad Bodhini
Original Sutra AuthorN/A
AuthorJinottamvijay Gani
PublisherSushil Sahitya Prakashan Samiti
Publication Year1997
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy