SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ देहेन्द्रियोत्थं सुखमस्ति यद् यद् , तत् तद् हि दुःखप्रदमेव विद्धि । यदात्मसौख्यं हि तदेव नित्यं , मुक्तस्तदाप्नोति निरीहभावात् ॥ १५ ॥ यद्यस्य विश्वस्य समस्त सौख्यं , कथञ्चिदेकीक्रियते द्विजेन्द्र ! । तथापि नो लक्षतभेऽपि भागे , तन्मुक्त - सौख्यस्य समत्वमीयात् ॥ १६ ॥ इत्थं विश्वविभोः दयान्वितहृदो , वक्त्राम्बुजस्यन्दितं , श्रेयोदायि समस्तपापदलने , दक्षं मनस्तोषदम् । पीत्वाऽलं वचनामृतं विदितवान् , तत्त्वं तु मुक्त रसौ , शीघ्र शिष्यशतत्रयेण सहितः, दीक्षां प्रभासो ललौ ॥१७।। इत्थं जिनेन्द्रस्य वचो जलेन , प्रक्षालितस्वान्तमला समस्ताः । एकादशैते हि गणाधिनाथाः , अस्यां पृथिव्यां प्रथिताः बभूवुः ॥ १८ ॥ श्रीमन्महावीरदिनेश्वरोऽयं , मोहान्धकारं दलयन् प्रकाशात् । त्रिशत्समाः भूलितलेऽत्र रेजे , स श्रेयसे स्याज्जगतां समेषाम् ॥ १६ ॥ ॥ इति श्रीगरणधरवादकाव्ये एकादशमश्रीप्रभास गरणधररस वर्णनम् ॥
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy