SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अव्यक्तमाद्य किल वस्तुनोऽस्ति, तथैव चान्तं परमाणुभावान् । मध्यं कथं तद् वशगं लभेत, त्वं वेत्स्यतः शून्यमिदं समस्तम् ॥ ५ ॥ हे व्यक्त ! सम्प्रति शृण त्तरमत्र पक्षं, स्वप्नेन्द्रजालसदृशं गदितं जगद्यत् । तत् कारणाद् विबुध ! विश्वविरागतायाः, नाशाय मोहतमसस्तदनित्यताऽस्ति ॥ ६ ॥ दृष्टं श्रुतं च यदवेदि विचारितं यत्, तत्स्वप्नगं भवति सर्वविदं सदैव । ' कामं तु जागृतनरस्य तदेव मिथ्या, विद्वस्तथापि परतोऽस्ति तदर्थ सत्ता ॥ ७ ॥ यद्यप्यसद् भवतु निश्चितमिन्द्रजालं, मिथ्या तथापि न भवन्ति तदीयभावाः । एतद् विशालजगति द्विज ! सन्ति नूनं, भूतानि कोऽत्र कुरुते हि वितर्कभावम् ॥ ८ ॥ भावं परं यत्वमपेक्ष्य सत्ता अर्थस्य वक्षीति न युक्तियुक्तम् । ह्रस्वादिकं यत् किल वस्तु जातं, स्वतोऽपि सिद्धय दिह विप्रराज ! ॥६॥ ( २२ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy